________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
CARKAR
ॐॐॐॐॐ55
चौरविलुप्तधनानां बद्धचक्षुषां चक्षुरुद्घाटनेन चक्षुर्दत्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयमपि संसारारण्यव-18 लातिना रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छादितसज्ज्ञानलोचनानां तदपनयनेन श्रुतचक्षुर्दत्त्वा निर्वाणमार्ग यच्छ
नुपकारीति दर्शयन्नाह- मग्गदए'त्ति,मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः, यथा हि
लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तान् निरुपद्रवं स्थान प्रापयन परमोपकारी भवतीत्येवमयमपीति ल दर्शयन्नाह-'सरणदए'त्ति शरण-बाणं नानाविधोपद्रवोपद्रुतानां तद्रक्षास्थानं, तब परमार्थतो निर्वाणं तदयत इति
शरणदयः, शरणदायकत्वं चास्य धर्मदेशनयैवेत्यत आह–'धम्मदेसए'त्ति,धर्म-श्रुतचारित्रात्मकं देशयतीति धर्मदेशका, 'धम्मदयेत्ति पाठान्तर, तत्र च धर्म-चारित्ररूपं दयत इति धर्मदयः, धर्मदेशनामात्रेणापि धर्मदेशक उच्यत इत्यत आह-'धम्मसारहित्ति धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसारधिः, यथा रथस्य सारथी रथं रथिकमन्वांश्च रक्षति एवं भगवान् चारित्रधर्माङ्गाना-संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारधिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह-'धम्मवरचाउरंतचक्कवट्टी'ति, वयः समुद्राश्चतुर्थश्च हिमवान् एते चत्वारोऽन्ताः-४ पृथिव्यन्ताः एतेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवत्तीं च चातुरन्तचक्रवर्ती वरश्चासौ चातुरन्तचक्रवत्ती च वरचातुरन्तचक्रवत्ती-राजातिशयः, धर्मविषये वरचातुरन्तचक्रवत्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा भगवान् धर्मविषये शेषप्रणेतृणांमध्ये सातिशयत्वात्तथोच्यत इति, अथवा धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभाग चतसृणां वा नरनारका
दीप
अनुक्रम
OGG
asurare.org
'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या)
~ 23~