SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८६-८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 8-560 प्रत सूत्रांक [८६-८९] दीप अनुक्रम [१०८ वक्तव्यः स्यात्, प्राकृतत्वाच सूत्रे नपुसकलिङ्गताऽस्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसी वक्तव्यः स्यात् । इति भावः । अनोत्तर-'पाणेत्ति वत्तव्य'मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् यदोच्छ्रासादिमत्वमात्रमाश्रित्य | तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छ्रासादिधमैयुगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात् , अथवा निगमनवा| क्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति । 'जम्हा जीवे इत्यादि, यस्मात् 'जीवः' आत्माऽसौ 'जीवति' प्राणान धारयति, तथा 'जीवत्वम् उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति'अनुभवति तस्माज्जीव इति वक्तव्यं स्यादिति। 'जम्हा सत्ते सुभासुभेहिं कम्मे हिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासु चेष्टासु, अथवा सक्तः६ संबद्धः शुभाशुभैः कर्मभिरिति ॥ अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह-'पारगए'त्ति पारगतः संसारसागरस्य 'भाविनि भूतवदि'त्युपचारादिति 'परंपरागए'त्ति परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः परम्परागतः ॥ इहानन्तरं संयतस्य संसारवृद्धिहानी उक्के सिद्धत्वं चेति, अधुना तु तेषामन्येषां है |चार्थानां व्युत्पादनार्थ स्कन्दकचरितं विवक्षुरिदमाह| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमिसा यहिया जणवयविहारं विहरह, तेणं कालेणं तेणं समएणं कयंगलानाम नगरी होत्था वण्णओ, तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नाम चेइए -१११] SARERatininemaana ~ 228~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy