________________
आगम
(०५)
प्रत
सूत्रांक
[४]
दीप
अनुक्रम
[4]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [४], मुनि दीपरत्नसागरेण संकलित
व्या०२
आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रतिशतं प्रत्युद्देशकमुपोद्घातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयं च प्रागू व्याख्यातो नमस्कारादिको ग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति । 'ते णं काले णं'ति, ते इति प्राकृतशैलीवशात्तस्मिन् यत्र तन्नगरमसीत्, णंकारोऽभ्यत्रापि वाक्यालङ्कारार्थो यथा “इमा णं भंते ! पुढवी" त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, 'ते णं'ति तस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् 'समए णं'ति समये - कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे 'ति एकारः प्रथमैकवचनप्रभवः “कर्यरे | आगच्छइ दित्तरुवे" इत्यादाविव ततश्च राजगृहं नाम नगरं 'होत्य'त्ति अभवत् । नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तमभवदिति १, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत् न तु सुधर्म्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात् । 'वन्नओ'त्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्या| लिखितत्वात् स चैवम्- “रिद्धत्थिमिय समिद्धे " ऋद्धं - पुरभवनादिभिर्वृद्धं स्तिमितं-स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात् समृद्धं धनधान्यादिविभूतियुक्तत्वात् ततः पदत्रयस्य कर्म्मधारयः, 'पमुइयजण जाणवर' प्रमुदिता-हृष्टाः प्रमोदकारणवस्तूनां सद्भावाज्जनानगरवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायताः सन्तो यत्र तत् प्रमुदितजन जानपदमित्यादिरोपपातिका सव्याख्यानोऽत्र दृश्यः । 'तस्स णं'ति षष्ठ्याः पञ्चम्यर्थत्वात्तस्माद्राजगृहानगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छिमे' त्ति उत्तरपौरस्त्ये 'दिसीभाए'त्ति दिशां भागो दिग्रूपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र 'गुण१ कतर आगच्छति दीप्तरूपः २ ( औप० सू० १ ) ।
Education international
For Parts On
~ 19~