________________
आगम
(०५)
प्रत
सूत्रांक
[६५-६९]
दीप
अनुक्रम [८७-९१]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः )
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [८], मूलं [६५-६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
विधवृक्षसमूहे 'मिगवित्तीए'त्ति मृगैः- हरिणैर्वृत्तिः - जीविका यस्य स मृगवृत्तिकः, स च मृगरक्षकोऽपि स्यादित्यत आह- 'मियसंकप्पे 'त्ति मृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा यस्यासौ मृगसङ्कल्पः, स च चलचित्ततयाऽपि | भवतीत्यत आह- 'मियपणिहाणे त्ति मृगवधैकाग्रचित्तः 'भिगवहाए'त्ति मृगवधाय 'गत'ति गत्वा कच्छादाविति योगः 'कूडपासंति कूटं च मृगग्रहणकारणं गर्त्तादि पाशश्च तद्बन्धनमिति कूटपाशम् 'उद्दाइ'त्ति मृगवधायोददाति, रचयतीत्यर्थः, 'तओ णं'ति ततः कूटपाशकरणात् 'कइकिरिए'ति कतिक्रियः ?, क्रियाश्च कायिक्यादिकाः, 'जे भविए'त्ति यो भव्यो योग्यः कर्त्तेतियावत् 'जावं च णमिति शेषः, यावन्तं कालमित्यर्थः कस्याः कर्त्ता इत्याह'उद्दवणयाए 'त्ति कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, 'तायं च णं'ति तावन्तं कालं 'काइयाए'ति गमना| दिकायचेष्टा रूपया 'अहिगरणियाए'त्ति अधिकरणेन कूटपाशरूपेण निर्वृता या सा तथा तथा 'पाउसियाए ति प्रद्वे| पो-मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी तथा 'तिहिं किरियाहिं'ति क्रियन्त इति क्रिया:- चेष्टाविशेषाः, 'पारितावणियाए 'त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातिते इति १ ॥ 'ऊसविए'त्ति उत्सर्पः ऊसिक्किऊणेत्यर्थः ऊद्धींकृत्येति वा 'निसिरइ'त्ति निसृजति क्षिपति यावदिति शेषः २ ॥ 'सुं' ति बाणम् 'आययकष्णायसं ति कर्ण यावदायतः - आकृष्टः कर्णायतः आयतं प्रयक्षवद् यथा भवतीत्येवं कर्णायत आयत कर्णायतस्तम् ' आयामेत'त्ति 'आयम्य' आकृष्य 'मग्गओ'ति पृष्ठतः 'सयपाणिण 'ति 'स्वकपाणिना' स्वकहस्तेन 'पुब्वायामणयाए 'ति पूर्वाकर्षणेण, 'से णं भंते! पुरिसे'ति 'सः' शिरश्छेत्ता पुरुषः 'मियवेरेणं' ति इह वैरं
catur internationa
For Parts Only
~ 191~