________________
आगम
(०५)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम [८४]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [६२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
णो ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिए'त्ति समीपे एकमध्यास्तामनेकम् 'आर्यम्' आराद् | यातं पापकर्मभ्य इत्यार्यम्, अत एव धार्मिकमिति, 'तओ'ति तदनन्तरमेव 'संवेगजायसडि 'त्ति संवेगेन- भवभयेन जाता श्रद्धा-श्रद्धानं धर्मादिषु यस्य स तथा 'तिब्वधम्मा णुरागरति त्ति तीव्रो यो धर्मानुरागो - धर्म बहुमानस्तेन रक्क इव यः स तथा, 'धम्मकामए 'त्ति धर्मः श्रुतचारित्रलक्षणः पुण्यं तत्फलभूतं शुभकर्मेति । 'अंबखुज्जए वत्ति आब| फलवत्कुनः 'अच्छेज'ति आसीत सामान्यतः, एतदेव विशेषत उच्यते- 'चिडेज' त्ति ऊर्द्धस्थानेन 'निसीएन' त्ति निषदस्थानेन 'तुयहेज'ति शयीत, 'सममागच्छद्द'त्ति, समम्-अविषमं 'सम्म'ति पाठे 'सम्यम्' अनुपघातहेतुत्वादागच्छतिमातुरुदराद् योन्या निष्क्रामति 'तिरियमागच्छति तिरचीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते यदि तदा 'विनिधातं' मरणमापद्यते, निर्गमाभावादिति । गर्भान्निर्गतस्य च यत्स्यात्तदाह- 'वण्णवज्झाणि यत्ति वर्णः श्लाघा वध्यो- हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णवाह्यानि अशुभानीत्यर्थः चशब्दो वाक्यान्तरत्वद्योतनार्थः, ' से 'ति तस्य गर्भनिर्गतस्य 'बाई' ति सामान्यतो बद्धानि 'पुट्ठाई' ति पोषितानि गाढतरबन्धतः 'निहत्ताई' ति उद्धर्त्तनापवर्तन करणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम् १-यतः पूर्वं स्पृष्टानीति, 'कडाई 'ति निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, पट्टवियाई ति मनुष्यगतिपश्ञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः, 'अभिनिविट्टाई ति तीव्रानुभावतया निविष्टानि,'अभिसमन्नागयाई ति उदद्याभिमुखीभूतानीति, ततश्च 'उदिन्नाई' ति 'उदीर्णानि' स्वत उदीरणाकरणेन वोदितानि, व्यतिरेकमाह-'नो उवसंताई'ति, अनिष्टादीनि व्याख्या
Education Intention
For Para Use Only
~ 185~
caryop