________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[८०२
-८०४]
गाथा:
'दुविहे'त्यादि, 'बाहिरिए यत्ति बाह्य-बाह्यस्यापि शरीरस्य तापनात् मियादृष्टिभिरपि तपस्तयाऽभ्युपगमाच्च 'अम्भितरिए यत्ति आभ्यन्तरम्-अभ्यन्तरस्यैव कार्मणाभिधानशरीरस्य प्रायस्तापनात्सम्यग्दृष्टिभिरेव प्रायस्तपस्तयाऽभ्युपगमाञ्चेति 'ओमोयरिए'त्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वोपकरणादेरपि न्यूनताकरणं सोच्यते, 'इसरिए यत्ति अल्पकालीनं 'आवकहिए यत्ति यावरकथिक-थावज्जीविकं, 'पाओवगमणे'त्ति पादपयनिस्पन्दतयाऽवस्थानं, 'नीहारिमेत्ति यदाश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमाश्रयान्निहरणीयं स्यादिति| कृत्वा निर्दारिम, 'अणीहारिमे यत्ति अनिहरिमं यद् गिरिकन्दरादौ प्रतिपद्यते, 'चियत्तोवगरणसाइजणय'त्ति 'चियतस्स'त्ति लक्षणोपेततया संयतस्यैय 'साइजणय'त्ति स्वदनता परिभोजनमिति, चूण्या तूक्तं-जं वत्थाइ धारेइ समिवि
ममत्तं नथि, जइ कोइ मग्गइ तस्स देई' त्ति, 'अप्पकोहे'त्ति अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति IN अप्पसद्देत्ति अल्पशब्दो राज्यादावसंयतजागरणभयात् 'अप्पझंझे'त्ति इह झञ्झा-विप्रकीर्णा कोपविशेषाद्वचनपद्धतिः,
चूया तूक्तं-झंझा भणत्थयबहुप्पलावित्तं' 'अप्पतुमंतुमे'त्ति तुमन्तुमो-हृदयस्थः कोपविशेष एष, 'वद्याभिग्गहचरए'त्ति भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाट्रव्याभिग्रहचरको भिक्षाचर्येत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः 'जहा उववाइए'त्ति, भनेनेदं सूचित-खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए' इत्यादि, 'सुद्धेसणिए'त्ति शुद्धषणा-शङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धैषणिकः 'संखादत्तिए'त्ति समाप्रधानाः पश्चषादयो दत्तयोभिक्षाविशेषा यस्य स तथा, 'जहा उबवाइए'त्ति अनेनेदं सूचितम्-'आयंविलिए आयामसित्थभोई अरसाहारे' इत्यादि,
दीप अनुक्रम [९६३
-९६९]
तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः,
~ 1851 ~