________________
आगम (०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [५३-५४]
गाथा:
एव 'अद्धति अतीताद्धा अनागताद्धा सर्वाद्धा चेति, 'किं पुचि लोयंति'त्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिम-द 15 सूत्राभिलापं दर्शयन्नाह–पुटिव भंते ! लोयंते पच्छा सव्वद्धे 'त्ति । एतानि च सूत्राणि शून्यज्ञानादिवादनिरासेन विधि-IN
बबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादिकृतत्वनिरासेन चानादित्वाभिधानार्थानीति । लोकान्तादिलोकपदार्थ-5
प्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह-अयं सूत्राभिलापः-आकाशप्रतिष्ठितो वायुः-तनुवातघनवातरूपः, तI स्यावकाशान्तरोपरि स्थितत्वात् , आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतेति । तथा वातप्रतिष्ठित उदधिः
घनोदधिस्तनुवातघनवातोपरि स्थितत्वात् २ । तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वात् रत्नप्रभादीनां, बाहुल्यापेक्षया चेदमुक्तम्, अन्यथा ईषत्पाग्भारा पृथिवी आकाशप्रतिष्ठितैव । तथा पृथिवीप्रतिष्ठिताखसस्थावराः प्राणाः, इदमपि प्रायिकमेव, अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तीति ४ । तथाऽजीवा:-शरीरादिपद्लरूपा जीव* प्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् ५ । तथा जीवाः कर्मप्रतिष्ठिताः, कर्मसु-अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु संसारि-5 जीवानामाश्रितत्वात् , अन्ये त्याहुः-जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावनावस्थिताः ६। तथा अजीवा जीवसंगृहीताः, मनोभाषादिपुद्गलानां जीवैः संगृहीतत्वात् , अथाजीवाः जीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः, | उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदा, यच्च यस्य संग्राह्यं तत्तस्याधेय
मध्यर्थापत्तितः स्याद् यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति । तथा जीवाः कर्मसंगृहीताः, | संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात् , ये च यशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमिहाप्याधाराधे
454556454556915%%%
दीप
अनुक्रम [७२-७६]
Linmaranorm
| रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि
~169~