________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [१], अंतर्-शतक [-], उद्देशक [१-१०], मूलं [६८८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६८८]
गाथा
विय एकेको होइ उद्देसो ॥१॥” इति, 'कल'त्ति कलायादिधान्यविषयो द्वितीयः २ 'अयसि'त्ति अतसीप्रभृतिधान्यविषयस्तृतीयः इ 'वंसे'त्ति वंशादिपर्वगविशेषविषयश्चतुर्थः ४'इक्खुत्ति इक्ष्वादिपर्वगविशेषविषयः पञ्चमः ५'दन्भे'त्ति दर्भशब्दस्योपलक्षणार्थत्वात् 'सेडियभंडियकोन्तियदन्भे' इत्यादितृणभेदविषयः षष्ठः ६ 'अन्भे'त्ति वृक्षे समुत्पन्नो विजातीयो वृक्षविशेषोऽध्यवरोहकस्तत्प्रभृतिशाकपायवनस्पतिविषयः सप्तमः ७ 'तुलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽ-६ टमो वर्ग: ८ 'अद्वैते दसवग्ग'त्ति अष्टावेतेऽनन्तरोक्ता दशानां दशानामुद्देशकानां सम्बन्धिनो वर्गाः-समुदाया दशवर्गा अशीतिः पुनरुदेशका भवन्ति, वर्गे वर्गे उद्देशकदशकभावादिति, तत्र प्रथमवर्गस्तत्रापि च प्रथम उद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-रायगिहे इत्यादि, 'जहा वक्तीए'त्ति यथा प्रज्ञापनायाः षष्ठपदे, तत्र चैवमुत्पादो-नो नारकेभ्य | उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्क्रान्तिपदे देवानां वनस्पतित्पत्तिरुक्ता इह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोकं 'नवरं देववनं'ति । 'एको वेत्यादि, यद्यपि सामान्येन वनस्पतिषु प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिन विरुद्धेति । 'अवहारो जहा उप्पलु-५ देसपत्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं-ते णं भंते ! जीवा समये २ अवहीरमाणा २ केवतिकालेणं अवहीरंति ?, गोयमा ! ते णं असंखेजा समए २ अवहीरमाणा २ असंखेज्जाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिय'त्ति 'ते णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?" इतः परं यदुक्तं | || 'जहा उप्पलुसए'त्ति अनेनेदं सूचित-गोयमा! नो अबंधगा बंधए वा बंधगा येत्यादि, एवं वेदोदयोदीरणा अपि वाच्या,
दीप अनुक्रम [८०६-८०७]]
* अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति
~1605~