________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [६६९-६७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
व्याख्या
प्रत सूत्रांक [६६९
अभयदेवीया वृत्तिः२
२० शतके उद्देशः ५ न्धे वणोदि , सू-६६९
६७०]
||७८७]]
दीप अनुक्रम [७८७-७८८]
'वायरपरिणए णमित्यादि, सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेण षोडश भङ्गाः । 'पंचफासे इत्यादि, कर्कशगुरुशीतैः स्निग्ध- रूक्षयोरेकत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैव च कक्कर्शगुरूष्णैर्लभ्यत इत्येवमष्टौ, एते चाष्टौ कर्कशगुरूभ्याम् , एवमन्ये च कर्कशलघुभ्याम् , एवमेते पोडश कर्कशपदेन लब्धा एतानेव च मृदुपदं लभते इत्येवं द्वात्रिंशत् , इयं च द्वात्रिंशत् स्निग्धरूक्षयोरेकत्वादिना लब्धा, अन्या च द्वात्रिंशत् शीतोष्णयोरन्या च गुरुलध्वोरन्या च कर्कशमृद्वोरित्येवं सर्व एवैते | मीलिता अष्टाविंशत्युत्तरं भङ्गकशतं भवतीति ॥'छफासे इत्यादि, तत्र सर्वकर्कशो १ गुरुश्च २ देशश्च शीतः ३ उष्णः ४ स्निग्धो ५ रुक्ष पति, इह च देशशीतादीनां चतुर्णा पदानामेकत्वादिना षोडश भनाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत् , इयं च सर्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्यत इति चतुःषष्टिभङ्गाः, इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विकर्मयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां च चतुर्णा पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टिः पहिर्दिकसं| योगैगुणितास्त्रीणि शतानि चतुरशीत्यधिकानि भवन्तीति अत एवोक्त-सबेवेते छफासे इत्यादि । 'जइ सत्तफासे' इत्यादि, इहाद्यं कर्कशाख्यं पदं स्कन्धच्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि पट् स्कन्धदेशांश्रितत्वात् सविपक्षाणी| त्येवं सप्त स्पशाः, एषां च गुर्वादीनां षण्णां पदानामेकत्वानेकत्वाभ्यां चतुःपष्टिर्भङ्गका भवन्ति, ते च सर्वशब्दविशेषितेनादिन्यस्तेन कर्कशपदेन लब्धाः , एवं मृदुपदेनापीत्येवमष्टाविंशत्यधिक शतं, एवं गुरुलघुभ्यां शेषैः पद्भिः सह १२८,
॥७८७॥
FarPurwanaBNamunoonm
~1578~