________________
आगम (०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
K
प्रत सूत्रांक [६३४-६३८]
विप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथः कथासंलापः समुत्पन्नो यदुत महावीरः पश्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, तत्र च धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायं च सचेतनं तथा धर्माधर्माकाशजीवास्तिकायानरूपिणः पद्गलास्तिकाय च रूपिणं प्रज्ञापयतीति 'से कहमेयं मन्ने एवं'ति अथ कथमेतत-धर्मास्तिकायादि वस्तु मन्ये इति वितर्कार्थः 'एवं' सचेतनाचेतनादिरूपेण, अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम् , 'अविउप्पकडेत्ति अपिशब्दः संभावनार्थः उत्-प्राबल्येन च प्रकृता-प्रस्तुता प्रकटा वा उत्प्रकृतोत्प्रकटा वा अथवा अविभिः-अजानद्भिःहै प्रकृता-कृता प्रस्तुता का अविद्वत्मकृता, 'जइ कजं कजइ जाणामो पासामो'त्ति यदि तैर्धर्मास्तिकायादिभिः कार्य स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामश्चावगच्छाम इत्यर्थः धूमेनाग्निमिव, अथ कार्य तैर्न क्रियते तदा न जानीमो न पश्यामश्च, अयमभिप्राय:-कार्यादिलिङ्गद्वारेणैवार्वाग्रहशामतीन्द्रियपदार्थावगमो भवति, न च धर्मास्तिकायादीनामस्मत्प्रतीतं किश्चित् कार्यादिलिङ्गं दृश्यत इति तदभावात्तन्न जानीम एव वयमिति ।। अथ मद्भुकं धर्माII स्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुं यत्ते पाहुस्तदाह-केस ण'मित्यादि, क एष त्वं महक ! श्रमणोपासकानां X || मध्ये भवसि यस्त्वमेतमर्थ श्रमणोपासकज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि , न कश्चिदित्यर्थः ॥
| अथैवमुपालब्धः सन्नसौ यत्तैरहश्यमानत्वेन धर्मास्तिकायाद्यसम्भव इत्युकं तद्विघटनेन तान् प्रतिहन्तुमिदमाह-अस्थि आणमित्यादि, 'घाणसहगय'त्ति प्रायत इति प्राणो-गन्धगुणस्तेन सहगता:-तत्सहचरितास्तद्वन्तो प्राणसहगता |'अरणिसहगए'त्ति अरणिः-अभ्यर्थ निर्मन्धनीयकाष्ठं तेन सह गतो यः स तथा तं 'मुडणं मढुया ! तुमति सुष्टु
दीप
ACAKACACCE
ERSARGERY
अनुक्रम [७४४-७४८]
~1509~