________________
आगम
(०५)
प्रत
सूत्रांक
[६०४
६१५]
दीप
अनुक्रम
[ ७०९
-७२०]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१७], वर्ग [–], अंतर् शतक [-], उद्देशक [६-१७], मूलं [६०४-६१५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि- रचित वृत्तिः
घातगत एव म्रियते ईलिकागत्योसादस्थानं याति तदोच्यते पूर्व सम्प्राप्य पुनलान् गृहीत्वा पश्चादुत्पद्येत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशैरुत्पत्तिक्षेत्रगतो भवेदिति भावः, 'देसेण वा समोहनइ सवेण वा समोहन्नइति यदा | मारणान्तिकसमुद्घातगतो म्रियते तदा ईलिकागत्योत्पत्तिदेशं प्राप्नोति तत्र च जीवदेशस्य पूर्वदेहे एव स्थितत्वाद् देशस्य चोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते, यदा तु मारणान्तिकसमुद्घातात् प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्खत्तिदेशं प्राप्तौ सर्वेण समवहत इत्युच्यते, तत्र च देशेन समवहन्यमानः- ईलिकागत्या गच्छन्नित्यर्थः पूर्व सम्प्राप्य पुद्गलान् गृहीत्वा पञ्चादुत्पद्यते सर्वात्मनोत्पादक्षेत्रे आगच्छति, 'सवेणं समोहणमाणे'ति गेन्दुकगत्या गच्छनित्यर्थः, पूर्वमुत्पद्य-सर्वात्मनोत्पाद देशमासाद्य पश्चात् 'संपाउणेज'त्ति पुद्गलग्रहणं कुर्यादिति ॥ सप्तदशशते षष्ठः ॥१७- ६ ॥ शेषास्तु सुगमा एव ॥ १७७-८-९-१०-११-१२-१३-१४-१५-१६-१७ ॥ तदेवं सप्तदशशतं वृत्तितः परिसमाप्तम् ॥ शते सप्तदशे वृत्तिः, कृतेयं गुर्वनुग्रहात् । यदन्धो याति मार्गेण, सोऽनुभावोऽनुकर्षिणः ॥ १ ॥ (ARRARARARARARARAY इति श्रीमदभयदेवाचार्यविहितवृत्तियुतं सप्तदशं शतं समाप्तम् ॥
JESU
For Parts Only
अत्र सप्तदशमे शतके षष्ठात् सप्तदशः पर्यन्ता: उद्देशका: परिसमाप्ता:
~1465~