________________
आगम
(०५)
प्रत
सूत्रांक
[५४७
-५४९]
दीप
अनुक्रम
[६४५
६४७]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
गोशालक चरित्रं
र्घत्वश्लक्ष्णपश्चाद्भागत्वादिसाधर्म्यात्स तथा तम् 'उडफुडकुडलजडुलकक्खड वियडफडाडोवकरणदच्छति उत्क | टो बलवताम्येनाध्वंसनीयत्वात् स्फुटो-व्यक्तः प्रयलविहितत्यात् कुटिलो वक्रस्तत्स्वरूपत्वात् जटिलः-स्कन्धदेशे केशरि|णामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटो-विस्तीर्णो यः स्फटाटोपः फणासंरम्भस्तत्करणे दक्षो यः स तथा तं 'लोहागरधम्ममाणधमधर्मेतघोसं ति लोहस्येवाकरे ध्मायमानस्य-अग्निना ताप्यमानस्य धमधमायमानो - धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः शब्दो यस्य स तथा तम्, 'अणागलियचंडतिपरोस'ति अनिर्गलित:-अनिवारितोऽनाकलितो वाऽप्रमेयश्चण्डः तीव्रो रोषो यस्य स तथा तं, 'समुहियतुरियचवलं धर्मतं' ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिका-कौलेयकस्येव भषणं तां त्वरितं च चपलमतिचटुलतया धमन्तं शब्दं कुर्वन्तमित्यर्थः 'सरसरसरसरस्सति सर्पगतेरनुकरणम् 'आइचं निज्झाय'त्ति आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णतार्थ 'समंदमत्तोवग| रणमायाय'त्ति सह भाण्डमात्रया - पणितपरिच्छदेन उपकरणमात्रया च ये ते तथा, 'एगाहचं'ति एका एव आहत्या- आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं कथमिव ? इत्याह-- 'कूडाचं 'ति कूटस्थेव पाषाणमय मारणमहायन्त्रस्ये वाहत्या - आहननं यत्र तत् कूटाहत्यं तद्यथा भवतीत्येवं, 'परियार'त्ति पर्यायः - अवस्था 'कित्तिवन्नसदसिलोग'त्ति इह वृद्धव्याख्या-सर्वदिग्व्यापी साधुवादः कीर्त्तिः एकदिव्यापी वर्णः अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लोकः श्लाघेतियावत् 'सदेवमणुयासुरे लोए' त्ति सह देवैर्मनुजैरसुरैश्च यो लोको जीवलोकः स तथा तन्त्र, 'पुयंति' त्ति 'लवन्ते'. गच्छन्ति 'तुङ्गतौ' इति वचनात् 'गुवंति' 'गुप्यन्ति' व्याकुलीभवन्ति 'गुप व्याकुलत्वे' इति वचनात् 'थुवंति 'त्ति क्वचित्तत्र
Education Internation
For Parts Only
~1349~