________________
आगम
(०५)
प्रत
सूत्रांक
[५२३]
दीप
अनुक्रम
[६२०]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [१४], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ ५२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६४९॥
| निर्वृत्तः औपशमिक:- सम्यग्दर्शनादि, 'खइए'त्ति क्षय:- कर्माभावः स एव क्षायिकः क्षयेण वा निर्वृत्तः क्षायिकः - केवलज्ञानादिः, 'खओवसमिति क्षयेण - उदयप्राप्तकर्मणो विनाशेन सहोपशमो - विष्कुम्भितोदयत्वं क्षयोपशमः स एव क्षायोपशमिक:- क्रियामात्रमेव क्षयोपशमेन वा निर्वृत्तः क्षायोपशमिकः - मतिज्ञानादिपर्यायविशेषः, नन्वौपशमिकस्य क्षायो| पशमिकस्य च कः प्रतिविशेषः, उभयत्राप्युदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावात् १, उच्यते, क्षायोपशमिके विपा| कवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'पारिणामिए'त्ति परिणमनं परिणामः स एव पारिणामिकः, 'सन्निवाइए 'त्ति सन्निपातः - औदविकादिभावानां द्व्यादिसंयोगस्तेन निर्वृत्तः सान्निपातिकः । 'संठातुल्लए'त्ति संस्थानं-आकृतिविशेषः, तच्च द्वेधा - जीवाजीवभेदात्, तत्राजीवसंस्थानं पञ्चधा, तत्र 'परिमंडले संठाणे'त्ति परिमण्डलसंस्थानं बहिस्ताद्वृत्ताकारं मध्ये शुषिरं यथा वलयस्य तच द्वेषा-घनप्रतरभेदात्, 'वहे'त्ति वृत्तं परिमण्डलमेवान्तःशुषिररहितं यथा कुलालचक्रस्य, इदमपि द्वेधा-घनप्रतरभेदात् पुनरेकैकं द्विधा-समसङ्ख्यविषमसङ्गयप्रदेशभेदात्, एवं त्र्यनं चतुरस्रं च, नवरं 'त्र्यनं' त्रिकोणं शृङ्गाटकस्येव चतुरस्रं तु चतुष्कोणं यथा कुम्भिकायाः, आयतदीर्घ यथा | दण्डस्य, तच्च त्रेधा-श्रेण्यायतप्रतराय तघनायतभेदात्, पुनरेकैकं द्विधा - समसङ्ख्य विषमसयप्रदेशभेदात् इदं च पञ्चवि| धमपि विश्रसाप्रयोगाभ्यां भवति, जीवसंस्थानं तु संस्थानाभिधाननामकर्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च पोढा, तत्राद्यं 'समचउरंसे 'ति तुल्यारोहपरिणाहं सम्पूर्णाङ्गावयवं स्वाङ्गलाष्टशतोच्छ्रयं समचतुरस्रं, तुल्यारोहपरिणाहत्येन | समत्वात् पूर्णावयवत्वेन च चतुरस्रत्वात्तस्य चतुरस्रं सङ्गतमिति पर्यायी, 'एवं परिमंडलेबि ति यथा समचतुरस्रमुक्त
For Parts Only
~ 1303~
१४ शतके ७ उद्देशः द्रव्यादि तुल्यता सू५२३
॥६४९॥