SearchBrowseAboutContactDonate
Page Preview
Page 1251
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४९४ -४९५] दीप अनुक्रम [५९० -५९१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१३], वर्ग [–], अंतर्-शतक [-], उद्देशक [७], मूलं [४९४-४९५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः निरूपणायाह - 'आया भंते ! कार्य इत्यादि, आत्मा कायः कायेन कृतस्यानुभवनात् न ह्यन्येन कृतमन्योऽनुभवति अकृतागमप्रसङ्गात्, अथान्य आत्मनः कायः कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्न:, [ ग्रन्थाग्रम् १३००० ] उत्तरं त्वात्माऽपि कायः कथञ्चित्तदव्यतिरेकात् क्षीरनीरवत् अययस्पिण्डवत् काञ्चनोपलबद्धा, अत एव कायस्पर्शे सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्तभेदे चाकृतागमप्रसङ्ग इति, 'अन्नेवि कार्य'त्ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः तथा च संवेदना सम्पूर्णता स्थात्, तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु | कार्म्मणकायमाश्रित्यात्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, 'अन्नेवि का 'त्ति औदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तद्भेदसिद्धिरिति, 'रुर्विपि कात्ति | रूप्यपि कायः औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः काणकायस्यातिसूक्ष्मरूपित्वेनारूपित्वविवक्षणात्, 'एवं एकेके पुच्छति पूर्वोक्तप्रकारेण के कसूत्रे पृच्छा विधेया, तद्यथा— 'सचित्ते भंते । काये अचित्ते काये ?" इत्यादि, अत्रोत्तरं - 'सचितेवि काए' जीवदवस्थायां चैतन्यसमन्वितत्वात्, 'अचित्तवि काए' मृतावस्थायां चैतन्यस्याभावात्, 'जीवेवि काये 'ति जीवोsपि विवक्षितोच्छ्रासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, 'अजीवेवि काये 'त्तिअजीवोऽपि उच्छ्रासादिरहितोऽपि भवति कायः कार्म्मणशरीरमपेक्ष्य, 'जीवाणवि कायेत्ति जीवानां सम्बन्धी 'कायः शरीरं भवति, 'अजीवाणवि कायेत्ति अजीवानामपि स्थापनाईदादीनां 'कायः शरीरं Ja Eucation Internatina For Parts Only ~ 1250~ www.landbrary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy