________________
आगम
(०५)
प्रत
सूत्रांक
[४६१
-४६६]
दीप
अनुक्रम
[५५४
-५५९]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
| तेषामेवान्तरं प्ररूपयन्नाह - 'भवियदवदेवस्स णं भंते !' इत्यादि, 'जहनेणं दसवाससहस्साई अंतोमुहुत्तमन्भहियाई 'ति भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि कथं ?, भव्यद्रव्यदेवो भूत्वा दशवर्षसहस्रस्थितिषु व्यन्तरादिपूत्पद्य च्युत्वा शुभपृथिव्यादौ गत्वाऽन्तर्मुहूर्त्त स्थित्वा पुनर्भव्यद्रव्यदेव एवोपजायत इत्येवं, एतच्च टीकामुपजीव्य व्याख्यातं, इह कश्चिदाह - ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेव तयोत्पत्तिसम्भवाद्दशवर्ष| सहस्राण्येव जघन्यतस्तस्यान्तरं भवत्यतः कथमन्तर्मुहूर्त्ताभ्यधिकानि तान्युक्तानि इति, अत्रोच्यते सर्वजघन्यायुर्देवश्चयुतः सन् शुभपृथिव्यादिषूत्पद्य भव्यद्रव्यदेवेषूत्पद्यत इति टीकाकारमतमवसीयते, तथा च यथोक्तमन्तरं भवतीति, अन्ये | पुनराहुः - इह बद्धायुरेव भव्यद्रव्यदेवोऽभिप्रेतस्तेन जघन्यस्थितिकादेवत्वाच्युत्वाऽन्तर्मुहूर्त्तस्थितिकभव्यद्रव्यदेवत्वेनोत्पन्नस्यान्तर्मुहतोपरि देवायुषो बन्धनाद् यथोक्तमन्तरं भवतीति, अथवा भव्यद्रव्यदेवस्य जन्मनोर्मरणयोर्वाऽन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति । 'नरदेवाण'मित्यादि, 'जहन्नेणं साइरेगं सागरोवमं'ति, कथम् ?, अपरित्यक्तसङ्गाश्चक्रवर्त्तिनो नरकपृथिवीषूत्पद्यन्ते, तासु च यथास्वमुत्कृष्टस्थितयो भवन्ति, ततश्च नरदेवो मृतः प्रथमपृथिव्यामुत्पन्नस्तत्र | चोत्कृष्टां स्थितिं सागरोपमप्रमाणामनुभूय नरदेवो जातः, इत्येवं सागरोपमं, सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेरर्वाचीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्त्तार्द्ध, कथं ?, चक्रवर्त्तित्वं हि सम्यग्दृष्टय एव निर्वर्त्तयन्ति तेषां च देशोनापार्द्धपुद्गलपरावर्त्त एव संसारो भवति, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति । 'धम्मदेवस्स ण
'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदाः
For Pal Pal Use Only
~ 1178~
Aanrary.org