SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [३०] दीप अनुक्रम [६४-९९] “समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः) समवाय [३०], मूलं [३०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीसमवायांगे श्रीअभय० वृत्तिः ॥ ५२ ॥ शिरसि यः प्रहन्ति खङ्गमुद्गरादिना प्रहरति प्राणिनमिति गम्यते, किंभूते स्वभावतः शिरसि ? 'उत्तमाङ्गे' सर्वावयवानां प्रधानावयचे तद्विघातेऽवश्यं मरणात् चेतसा-सङ्क्लिष्टेन मनसा न यथाकथञ्चिदित्यर्थः तथा विभज्य मस्तकं प्रकृष्टप्रहारदानेन स्फोटयति-विदारयति ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य गम्यमानत्वात् महामोहं प्रकरोतीति पञ्चमं ५ । पौनःपुन्येन प्रणिधिना - मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः पथि गच्छता सह गत्वा विजने मारयति तथा हत्वा - विनाश्य इति गम्यते उपहसेत् आनन्दातिरेकात् 'जनं' मूर्खठोकं हन्यमानं, केन हत्वा ?--' फलेन' योगभावितेन मातुलिङ्गादिना 'अदुवा' अथवा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं प्रकरोतीति पष्ठम् ६। 'गूढाचारी' प्रच्छन्नानाचारवान् निगृहयेत - गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचारं तथा मायां परकीयां मायया खकीयया छादयेत्-जयेत् यथा शकुनिमारका छदैरात्मानमावृत्य शकुनीन् गृहन्तः स्वकीयमायया शकुनिमायां छादयन्ति तथा असत्यवादी 'निहवी' अपलापकः खकीयाया मूलगुणोत्तरगुणप्रतिसेवायाः सूत्रार्थयोर्वा म| हामोहं प्रकरोतीति सप्तमं ७ । ध्वंसयति-छायया भ्रंशयति इति यः पुरुषोऽभूतेन - असद्भूतेन, कं ? - अकर्मकं - अविद्यमानदुश्वेष्टितं आत्मकर्मणा - आत्मकृतऋषिघातादिना दुष्टव्यापारेण 'अदुवा' अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेवं त्वमकार्षीरेतन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात्स इत्यस्यापि गम्यमानत्वात् महामोहं प्रकरोतीत्यष्टमं ८। जानानः यथा अनृतमेतत्परिषदः सभायां बहुजनमध्ये इत्यर्थः, सत्यामृषाणि किञ्चित्स लानि बह्नसत्यानि वस्तूनि वा मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्या: For Pasta Use Only ~ 108~ ३० सम वायाध्य. ॥ ५२ ॥
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy