SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [३०] दीप अनुक्रम [६४-९९] “समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः) मूलं [३०] समवाय [३०], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः क्यानि वा भाषते 'अक्षीणझन्झः' अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमं ९। अनायक:- अविद्यमाननायको राजा तस्य नयवान् नीतिमानमात्यः स तस्यैव राज्ञो 'दारान् कलत्रं द्वारं वा-अर्थागमस्थोपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा ?-- विपुलं' प्रचुरमित्यर्थः, 'विक्षोभ्य' सामन्तादिपरिकर भेदेन संक्षोभ्य नायकं तस्य क्षोभं जनयित्वेत्यर्थः, 'कृत्वा' विधाय णमित्यलङ्कारे प्रतिवास-अनधिकारिणं दारेभ्योऽर्थागमद्वारेभ्यो वा, दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः १० तथा 'उपकसन्तमपि समीपमागच्छन्तमपि, सर्वखापहारे कृते प्राभृतेनानुलोमैः करुणैश्च वचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा - अनिष्टवचनावकाशं कृत्वा प्रतिलोमाभिःतस्य प्रतिकूलाभिर्वाग्भिः- वचनैरेतादृशस्तादृशस्त्वमित्यादिभिरित्यर्थः, 'भोगभोगान्' विशिष्टान् शब्दादीन् विदारयति योऽसौ महामोहं प्रकरोतीति दशमं १० । अकुमारभूतः अकुमारब्रह्मचारी सन् यः कश्चित् कुमारभूतोऽहं कुमारब्रह्मचारी जहमिति वदति, अथ च खीषु गृद्धो वशकश्च स्त्रीणामेवायन्त इत्यर्थः, अथवा 'वसति' आस्ते स महामोहं प्रकरोतीत्येकादशं ११ । अत्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवासेव्याब्रह्मचर्यं ब्रह्मचारी साप्रतमहमित्यतिधूर्त्ततया परप्रवञ्चनाय वदति, तथा य एवमशोभावहं सतामनादेयं भणन् गर्दभ इव गवां मध्ये विखरं न वृषभवन्मनोज्ञं नदति-मुञ्चति नदं-नादं शब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारी वालोमूढो मायामृषा बहुश:-अनृतं प्रभूतं भाषते यचैवं निन्दितं भाषते, कया ? - खीविषयच्या हेतुभूतया स इत्थंभूतो JEI मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्याः For Parts Only ~ 109~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy