SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४४] (०३) प्रत सूत्रांक [७४४] सविधे सज्ञावाताणओगे पं० सं०-चंकारे १ मंकारे २ पिंकारे ३ सेतंकारे ४ सातकरे ५ एगत्ते ६ पुधत्ते ७ संजूहे ८ संकामिते ९ मिन्ने १० (सू०७४४). 'दसे त्यादि, शुद्धा-अनपेक्षितवाक्यार्थी या वाक्-वचनं सूत्रमित्यर्थः तस्या अनुयोगो-विचारः शुद्धवागनुयोगः, सूत्रे लाच अपुंवद्भावः प्राकृतत्वात् , तत्र चकारादिकायाः शुद्धवाचो योऽनुयोगः स चकारादिरेव व्यपदेश्यः, तत्र 'चंकात्ति अत्रानुस्वारोऽलाक्षणिको यथा 'सुंके सणिंचरे' इत्यादो, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगस मुच्चयान्वाचयावधारणपादपूरणाधिकवचनादिष्विति, तत्र “इत्थीओ सयणाणि य" इति, इह सूत्रे चकार: समुच्चयार्थः स्त्रीणां शयनानां चापरिभोग्यतातुल्यतत्वप्रतिपादनार्थः १, 'मंकारे'त्ति मकारानुयोगो यथा 'समणं व माहणं वा' इति सूत्रे माशब्दो निषेधे, अथवा 'जेणामेव समणे भगवं महावीरे तेणामेवें'त्यत्र सूत्रे जेणामेव इह मकार आगमिक एव, येनैवेत्यनेनैव विवक्षितप्रतीतेरिति २, 'पिंकारे'त्ति अकारलोपदर्शनेनानुस्वारागमेन चापिशब्द उक्तस्तदनुयोगो यथा अपिः सम्भावनानिवृत्त्यपेक्षासमुच्चयगोशिष्यामर्षणभूषणप्रश्नेविति, तत्र 'एवंपि एगे आसासे' इत्यत्र सूत्रे एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति ३, 'सेयंकरें'त्ति इहाप्यंकारोऽलाक्षणिकस्तेन सेकार इति, | तदनुयोगो यथा 'से भिक्खू धे'त्यत्र सूत्रे सेशब्दोऽथार्थः, अथशब्दश्च प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनस| मुच्चयेष्वित्यानन्तर्यार्थः सेशब्द इति, क्वचिदसावित्यर्थः, कचित्तस्येत्यर्थः, अथवा 'सेयंकार' इति श्रेय इत्येतस्य करणं श्रेयस्कारः, श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथा 'सेयं मे अहिजिउं अज्झयण'मित्यत्र सूत्रे श्रेया-अतिशयेन प्रशस्य दीप अनुक्रम [९५०] ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~992~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy