________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७४३] + गाथा
(०३)
प्रत सूत्रांक [७४३]]
AXXX
गाथा
सगतस्तदा नासौ पर्वतकदेशे वर्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोप इति ४, तथा लक्ष्यते-तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तलक्षणं च स्वलक्षणं यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञा-1 नत्वं ५, तथा करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्र यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, नात्र किल सकललोकमतीतः साध्यसाधनधानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता ६, दृष्टान्तसमावेऽस्यैव हेतुव्यपदेशः स्यात्, तथा हिनोति-गमयतीति हेतुः साध्यसद्भावभावतदभावाभावलक्षणः, ततश्च स्वलक्षणादीनां द्वन्द्वः, तेषां दोपः स्वलक्षणकारणहेतुदोषः, इह काशब्दः छन्दोऽथ द्विबद्धो ध्येयः ७, अथवा सह लक्षणेन यौ कारणहेतू तयोदोष इति विग्रहः तत्र लक्षणदोषोऽव्याप्तिरतिर्व्याप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रति|भासभेदस्तरस्वलक्षणमिति, इदं स्वलक्षणलक्षणं, इदं चेन्द्रियप्रत्यक्षमेबाश्रित्य स्यात् न योगिज्ञानं, योगिज्ञाने हि न
सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किश्चित्स्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धि-४ हेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्यात्, का अथवा दार्शन्तिकोऽो लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तस्तद्दोषः--साध्यविकलत्वादिः, तत्र साध्यविकलता यथा नित्यः | शब्दो मूर्तत्वाद् घटवद्, इह घटे नित्यत्वं नास्तीति कारणदोषः साध्यं प्रति तव्यभिचारो यथा अपौरुषेयो वेदो|
वेदकारणस्यायमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति हेतुदोषोऽसिद्धविरुद्धानकान्तिकत्व|लक्षणः, तत्रासिद्धों यथाऽनित्यः शब्दश्चाक्षुषत्वाद् घटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सिद्ध, विरुद्धो यथा नित्यः शब्दः
545%25%95555
दीप अनुक्रम [९४४-९४९]
Tangibrary on
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 988~