SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक -], मूलं [७४१] + गाथा: (०३) CASCR प्रत सूत्रांक [७४१] 5450564560 मोसंति, 'उप्पन्नमीसए'त्ति उत्पन्नविषयं मिश्र-सत्यामृषा उत्पन्न मिश्रं तदेवोत्पन्नमिश्रक, यथैकं नगरमधिकृत्यास्मिन्नद्य: दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे व्यवहारतोऽस्य सत्यामृपात्वात् , श्वस्ते शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रियाऽभावेन सर्वथा व्यत्ययाद्, एवं विगतादिष्यपि भावनीयमिति १, 'विगतमीसए'त्ति विगतविषयं मिश्रकं विगतमिश्रक, यथैकं ग्राममधिकृत्यास्मिनद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति २, 'उप्पन्नविगयमीसए'त्ति उत्पन्नं च विगतं च उत्पन्नविगते तद्विषयं मिश्रकं उत्पन्नविगतमिश्रक, यथैक पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाताः दश च वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभाव इति ३, 'जीवमीसए'त्ति जीवविषयं मिश्र-सत्यासत्यं जीवमिश्र, यथा जीवन्मृतकृमिराशी जीवराशिरिति ४, "अजीवमीसए'त्ति अजीवानाश्रित्य मिश्रमजीवमिश्र, यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति ५, 'जीवाजीवमिस्सए'त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रक यथा तस्मिन्नेव जीवन्मृतकृमिराशी प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे ६, 'अणंतमीसए'त्ति अनन्तविषयं मिश्रकमनन्तमिश्रकं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः ७, 'परित्तमिस्सए'त्ति परीत्तविषयं मिश्रक परीत्तमिश्रकं यथा अनन्तकायले शवति परीत्ते परीचोऽयमित्यभिदधतः ८,'अद्धामिस्सएत्ति कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित्प्रयोजने सहायांस्स्वरयन् परिणतप्राये वा वासरे एव रजनी वर्तत इति ब्रवीति ९, 'अद्धामी-13 सए'त्ति अद्धा-दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रक-सत्यासत्यं अद्धाशामिश्रक, यथा| गाथा दीप अनुक्रम BARABAS [९३८ -९४२] K Morayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~984~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy