________________
आगम
(०३)
प्रत
सूत्रांक
[६९३]
दीप
अनुक्रम
[८७२
-८७६]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ४६६ ॥
“स्थान” - अंगसूत्र - ३ ( मूलं + वृत्तिः) स्थान [९], उद्देशक [-],
मूलं [ ६९३ ] + गाथा:
Education into
४
एव स्थानं-वस्तु आरम्भस्थानमेकमेव, तत्तत्प्रमत्तयोगलक्षणत्वात् तस्य यदाह - "सब्बो पमतजोगो समणस्स उ होइ आरंभो” इति, [सर्वः प्रमत्तयोगः भवति आरंभ एव भ्रमणस्य ॥ ] इतः शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितं, तथा फलकं प्रतलमायतं का स्थूलमायतमेव लब्धानि च सन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्कादीनि तैर्वृत्तयो निर्वाहा लब्धापलब्धवृत्तयः, 'आहाकम्मिए इ वत्ति आधाय-आश्रित्य साधून कर्म्म-सचेतनस्याचेतनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म्म तदेवाधाकस्मिकम् उक्तं च- "सञ्चितं जमचित्तं साहूणऽद्वाए कीरए जं च । अचित्तमेव पच्चर आहाकम्मं तयं भणियं ॥ १ ॥” [ साध्वर्थे सचित्तं यदचित्तं ४ क्रियते अचित्तस्य पाकादि वा तदाधाकर्म भणितं ॥ १ ॥ ] इह चेकारः सर्वत्रागमिकः इतिशब्दो वाऽयमुपप्रदर्शनार्थपरो वा विकल्पार्थः, 'उद्देसियं' ति अर्थिनः पाखण्डिनः श्रमणान्निर्ग्रन्धान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौदेशिकमिति, उद्देशे भवमौदेशिक मितिशब्दार्थः, यद्वा तथैव यदुद्धरितं सद् दध्यादिभिर्विमिश्रय दीयते तापयित्वा वा तदपि तथैवेति, इहाभिहितम् - "उद्देसिय साहुमाई ओमन्वय भिक्खवियरणं जं च । उद्धरियं मीसेडं तबिडं उद्दे सियं तं तु ॥ १ ॥” इति [ अवमात्यये साध्वादीनुद्दिश्य यद्भिक्षावितरणं यद्वा उद्धृतं मिश्रयित्वा तापयित्वा दानं तदौदेशिकमेव ॥ १ ॥ ] 'मीसजाए व 'ति गृहिसंयतार्थमुपस्कृततया मिश्र जातं - उत्पन्नं मिश्रजातं यदाह - "पढमं 3 चिय गिहिसंजय मीसं उवक्खड मीसगं तं तु ॥” इति [ प्रथममेव गृहिसंयत मिश्रमुपस्करोति तन्मिश्रमेव ॥ ] 'अज्झोयरए'ति स्वार्थमूलाग्रहणे साध्वाद्यर्थं कणप्रक्षेपणमध्यवपूरकः, आह च - " सट्टा मूलद्दहणे अज्झोयर होइ
॥ ४६६ ॥
Forest Use Only
९ स्थाना०
उद्देशः र
महापद्म
चरितं
सू० ६९३
~ 935~
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते