________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९१]
(०३)
प्रत सूत्रांक
[६९१]
Piश्रेणिको राजा प्रसिद्धस्तेन १, एवं सुपाश्चों भगवतो वर्द्धमानस्य पितृव्यः २, उदायी कोणिकपुत्रः, यः कोणिकेऽप४कान्ते पाटलिपुत्रं नगरं न्यधीविशत् यश्च स्वभवनस्य विविक्कदेशे पर्वदिनेष्वाह्वय संविनगीतार्थसद्गुरूस्तत्पर्युपासनापरा
यणः परमसंवेगरसप्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकमायोग्यमनुष्ठानमनुतिष्ठते एकदा च निशि देशनिर्बाटितरिपुराजपुत्रेण द्वादशवापिंकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कङ्कायाकत्तिकाकण्ठकर्त्तनेन विनाशित द्र इति ३, पोहिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरनिवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भा-18
योत्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्नः महाविदेहात्सिद्धिगामी. अयं विह भरतक्षेत्रात सि-| |द्धिगामी गदित इति ततोऽयमन्यः सम्भाव्यत इति ४, रढायुरप्रतीतः ५, शङ्खशतको श्रावस्तीश्रावको, ययोरीदृशी वक्तव्यता-किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय व|न्दितुमागताः, ततो निवर्तमानांस्तान् शङ्खः खल्वाख्याति स्म-यथा भो देवानांप्रिया! विपुलमशनाद्युपस्कारयत ततस्त|सरिभुजानाः पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, ततस्ते तातिपेदिरे, पुनः शङ्गोऽचिन्तयत्-न श्रेयो मेऽशनादि भुञ्जानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्नु श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्तु, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्या या वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत्, इतश्च तेऽशनाद्युपस्कारयांचक्रुः एकत्र च समवेयुः शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शङ्के पुष्कलीनामा श्रमणोपासकः शतक इत्यपरनाम शजस्याकारणार्थं तद्गृह जगाम, आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, ततः पौषधशालायां स विवेश
दीप
अनुक्रम [८७०]
JanEainALI
Khandrarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~914~