________________
आगम
(०३)
प्रत
सूत्रांक
[६२१]
दीप
अनुक्रम
[७३२]
Educator
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-1, मूलं [६२१]
स्थान [८],
नवरं औपम्यमुपमा पल्यसागररूपा तत्प्रधाना अद्धा कालोऽद्धौपम्यं राजदन्तादिदर्शनात् पत्येनोपमा यत्र काले परिमाणतः स पस्योपर्म, रूढितो नपुंसकलिङ्गता, एवं सागरोपमं, अवसर्पिण्यादीनां तु सागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीय, समयादिस्तु शीर्षप्रहेलिकान्तः कालोऽनुपमाकाल इति । कालाधिकारादिदमपरमाह- 'अरहओ इत्यादि, जाव अट्टमाउ'त्ति अष्टमं पुरुषयुगं - अष्टपुरुषकालं यावत् युगान्तकरभूमिः पुरुषलक्षणयुगापेक्षयाऽन्तकराणांभवक्षयकारिणां भूमिः कालः सा आसीदिति इदमुक्तं भवति - नेमिनाथस्य शिष्यप्रशिष्यक्रमेणाष्टौ पुरुषान् यावन्निर्वाणं गतवन्तो न परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमिः प्रसङ्गादुच्यते - 'दुवास त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षुरिति । तीर्थकरवतव्यताधिकारादिदमाह - 'समणेण 'मित्यादि सुगमं, नवरं 'भवित्त'ति अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयिखेति दृश्यं, 'वीरंगए' इत्यादि 'तह संखे कासितबद्धणए' | इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति एते च यथा प्रब्राजितास्तथोच्यते, तत्र वीराङ्गको वीरयशाः संजय इत्येते प्रतीताः, एणेयको गोत्रतः, स च केतकार्द्धजनपदश्वेतंचीनगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य निजकः कश्चिद्राजर्षिः, तथा सेये आमलकल्पानगर्याः स्वामी, यस्यां हि सूर्यकाभो देवः सौधर्मात् देवलोकाद् भगवतो महावीरस्य वन्दनार्थमवततार नाव्यविधिं चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवता प्रत्यपादीति, तथा शिवः हस्तिनागपुरराजो, यो ह्येकदा चिन्तयामास - अहमनुदिनं हिरण्यादिना वृद्धिमुपगच्छामि यतस्ततो ऽस्ति पुराकृतकर्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति ततो व्यवस्थाप्य राज्ये पुत्रं कृत्वोचितमखिलकर्त्तव्यं दि
Forest Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
~864~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः