________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६११]
(०३)
प्रत सूत्रांक [६११]
INIभृतौ-पोषणे साधु कुमारभृत्यं, तद्धि तत्रं कुमारभरणक्षीरदोषसंशोधनार्थं दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थ ।
चेति १ कायस्थ ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तत्रं कायचिकित्सा, तत्तन्त्र हि मध्याजसमाश्रितानां ज्चराती-1 ४साररतशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति २ शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तन्त्रं शालाक्यं, एतद्धि
चक्रगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति ३ शल्यस्य हत्या-हननमुद्धारः शल्यहत्या तत्प्रतिपादक तन्त्रमपि शल्यहत्येत्युच्यते, तद्विधतृणकाष्ठपाषाणपांसुलोहलोष्ठास्थिनखपायाऽजान्तर्गतशल्योद्धरणार्थमिति ४४ 'जङ्गोली ति विषविघाततन्त्रमगदतन्त्रमित्यर्थः, तद्धि सर्पकीटलूनादष्टविषनाशनार्थ विविधविषसंयोगोपशमनार्थ
चेति ५भूतादीनां निग्रहार्थं विद्यातन्त्र भूतविद्या, सा हि देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्ति कर्माबलिकरणादिग्रहोपशमनार्थेति ६ 'क्षारतन्त्र'मिति क्षरणं क्षारः शुक्रस्य तद्विषयं तत्रं यत्र तत्तथा, इदं हि सुश्रुतादिपु पाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्या अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् | तत्रं हि अल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थमिति ७ रसा-अमृतरसस्तस्यायनं-प्राप्तिः | रसायनं, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च तत्प्रतिपादक शाखं रसायनतन्त्रमिति ॥ कृतरसायनश्च देववनिरुपक्रमायुर्भवतीति देवप्रस्तावाद्देवानामष्टकाम्याह
सकस्स णं देविंदस्स देवरन्नो अडग्गमहिसीओ पं० त०-पउमा सिवा सती अंजू अमला अच्छरा णवमिया रोहिणी १ ईसाणरस देविंदस्स देवरनो अट्ठम्गमहिसीओ पं००-कण्हा कण्हराती रामा रामरक्खिता वसू वसुगुत्ता वसुमित्ता
दीप अनुक्रम [७२२]
Jinatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~860~