________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६११]
(०३)
प्रत सूत्रांक [६११]
-"अस्थिध्यर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥" इत्यादि ७, व्यञ्जनं-मषादि, यथा-'ललाटकेशः प्रभुत्वायेंत्यादि ८॥ एतानि च शाखाणि वचनविभक्तियोगेनाभिधेयप्रतिपादकानीति वचनविभक्तिस्वरूपमाह-'अट्टविहा वयणविभत्ती'त्यादि, उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽधों यस्तानि वचनानि विभण्यते कर्तृत्वकर्मत्वादिलक्षणोऽर्थों यया सा विभक्तिः वचनात्मिका विभक्तिर्वचनविभक्तिः, 'सु औ जसि'त्यादि, 'निद्देसे सिलोगो, निर्देशनं निर्देश:-कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादन तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे १, तथा उपदिश्यत इत्युपदेशन-उपदेशक्रियाया व्याप्यमुपलक्षणत्वादस्य क्रियाया यव्याप्यं तत् कर्मेत्यर्थस्तत्र द्वितीया, यथा भण इमं श्लोकं कुरु वा तं घटं ददाति तं याति ग्राम |२, तथा क्रियते येन तत्करणं-कियां प्रति साधकतमं करोतीति वा करणः-कर्ता 'कृत्यल्युटो बहुल' (पा०३-३-११३) मिति वचनादिति, तत्र करणे तृतीया कृता-विहिता, यथा नीतं सस्यं तेन वाकटेन कृतं कुण्डं मयेति ३, तथा 'संपदावणे'त्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुथीं, यथा भिक्षवे| | भिक्षा दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमःस्वस्तिस्वाहास्वधाडलंवषड्युक्ताच्च चतुर्थी भवति, नमः शाखायै-वैरादिकायै, नमःप्रभृतियोगोऽपि कैश्चित्सम्प्रदानमभ्युपगम्यते इति चतुर्थी ४, 'पञ्चमी'ति श्लोकः, अपादीयते । अपायतो-विश्लेषत आ-मर्यादया दीयते 'दो अवखण्डन' इति वचनात् खण्ड्यते-भिद्यते आदीयते वा-गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थस्तत्र पञ्चमी भवति, यथा-अपनय ततो गृहातान्यमितो वा कुशलाहाणेति ५,४
दीप अनुक्रम [७२२]
ONGCAR1
Inangionary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३], अंग सूत्र - [३]
स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~858~