________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक - मूलं [१९३] +गाथा- २
(०३)
BARSA
प्रत
सूत्रांक
[५९३] गाथा
नुभावा एवोच्यन्ते, तथा मनसः शुभता मनःशुभता, साऽपि सातानुभावकारणत्वारसातानुभाव उच्यते, एवं वचःशुभताऽपि, मनःसुखता वा सातानुभावः, तत्स्वरूपत्वात् तस्याः, एवं वाक्सुखताऽपीति, एवमसातानुभावोऽपि ॥सातासाताधिकारात् तद्वतां देवविशेषाणां प्ररूपणाय सूत्रपञ्चकमाह-'महे'त्यादि सुगम, नवरं पूर्व द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशि गम्यते येष्वित्यर्थः, एवं शेषाण्यपि सप्त सप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह | चंद्रप्रज्ञस्याम्-"तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नताओ, तत्थेगे एवमाहंसु-कत्तिआइआ सत्त नक्खत्ता पुब्बदारिया पन्नत्ता" एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्चिन्यादीनि अपरे भरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, 'वयं पुण एवं क्यामो-अभियाइया णं सत्त नक्खत्ता पुब्बदारिया पन्नत्ता, एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके तु प्रथम मतमाश्रित्यैतदभि-13 धीयते, यदुत-"दहनाद्यमृक्षसप्तकमैन्यां तु मघादिकं च याम्यायाम् । अपरस्यां मैत्रादिकमथ सौम्यां दिशि धनिष्ठादि |॥१॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तिः । अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् ॥ २॥ पूर्वायामौदीच्यां प्रातीच्या दक्षिणाभिधानायां । याम्यां तु भवति मध्यममपरस्यां यातुराशायाम् ॥ ३॥ येऽतीत्य यान्ति मूढाः परिघाख्यामनिलदहनदिग्रेखाम् । निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः॥४॥" इति ॥ देवाधिकारादेवनिवासकूटसूत्रद्वयं-'जंबू' इत्यादि कण्ठ्यं, केवलं 'सोमणसे'त्ति सौमनसे गजदन्तके देवकुरूणां प्राचीने 'कूटानि शिखराणि, 'सिद्धे' गाहा, सिद्धायतनोपलक्षितं सिद्धकूट मेरुप्रत्यासन्नमेवं सर्वगजदन्तकेषु सिद्धायतनामि, शेषाणि ततः
||२||
%
दीप अनुक्रम [६९०६९८]
%*
का
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~832~