________________
आगम
(०३)
प्रत
सूत्रांक
[५८७]
गाथा
||||
दीप
अनुक्रम
[६८८
६८९]
“स्थान”
स्थान [७],
-
अंगसूत्र - ३ (मूलं + वृत्तिः)
उद्देशक [-],
मूलं [ ५८७ ] + गाथा- १
|च्छेदिकानां धर्माचार्य इति ४ । तथा 'गंग' इति, यो हि आर्यमहागिरिशिष्यस्य धनगुप्तस्य शिष्यः उल्लुकातीराभिघाननगराच्छरद्याचार्यवन्दनार्थं प्रस्थित उल्कां नदीमुत्तरन् खलतिना शिरसा दिनकरकरनिकरसम्पात सञ्जातमुष्णं पा दाभ्यां च शीतलजलजनितनितान्तशीतं वेदयंश्चिन्तयामास सूत्रेऽभिहितमेका क्रियैकदा वेद्यते शीता वोष्णा वा, अहं च द्वे क्रिये वेदयामि अतो द्वे क्रिये समयेनैकेन वेद्येते इति, गत्वा च गुर्वन्तिके वन्दित्वाऽभिदधावभिप्रायमात्मीयमाचार्याय, तेन चावाचि-मैवं वोचः, यतो नास्त्येकदा क्रियाद्वयवेदनं, केवलं समयमनसोरतिसूक्ष्मतया भेदो न लक्ष्यते, उत्पलपत्रशतव्यतिभेदवत् एवं च प्रतिपादितः सन्नप्रतिपद्यमानो वहिष्कृतः अन्यदा राजगृहे महातपस्तीरप्रभाभिधाने नदविशेषे मणिनागनाम्नो नागस्य चैत्ये पर्षन्मध्ये स्वमतमावेदयन् मणिनागेन विसद्दर्पगर्भया भारत्याऽभिहितो-रे रे दुष्टशैक्ष! कस्मादस्मासु सत्स्वेवमप्रज्ञापनीयं प्रज्ञापयसि ?, यत इहैव स्थाने स्थितेन भगवता वर्द्धमानस्वामिना प्रणिन्ये-यथैकदैकैव क्रिया वेद्यत इति, ततस्त्वं ततोऽपि रुष्टतरो जातः १, उर्दथेनं वादं, मा ते दोषात् नाश|विष्यामीति भयमापन्नः प्रतिबुद्धः सोऽयं क्रियाणां धर्माचार्य इति ५ । तथा 'छल'त्ति, द्रव्यगुणकर्मसामान्यविशेषसमवाय लक्षणपटूपदार्थप्ररूपकत्वाद् गोत्रेण च कौशिकत्वात् पडुलुको, यो हि नामान्तरेण रोहगुसो, यश्चान्तरख्यां पुर्या भूतगुहाभिधानव्यन्तरायतने व्यवस्थितानां श्रीगुप्साभिधानानामाचार्याणां वन्दनार्थं ग्रामान्तरादागच्छन् प्रवादिप्रदापितपटहकथ्य निमाकर्ण्य सदर्प च तं निषेध्याचार्यस्य तन्निवेद्य ततो मायूर्यादिविद्या उपादाय राजकुलमतिगत्य बलश्रीनाम्नो नरनायकस्याग्रतः पोहशालाभिधानपरिव्राजकमवादिनमाहूय तेन च जीवाजीवलक्षणे राशिद्वये स्थापिते
For Parts Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
~828~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः