________________
आगम (०३)
प्रत
सूत्रांक
[५४५]
दीप
अनुक्रम
[५९६ ]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [ ५४५]
स्थान [७],
उद्देशक [-],
वादिषूपहृतमेव भोजनजातं यत् ततो गृहतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं योजनजातं भोक्तुं वा स्वहस्तादिना तद् गृह्णत इति षष्ठी, उज्झितधर्म्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृहत इति हृदयं सप्तमीति । पानकैषणा एता एव, नवरं चतुर्थ्यां नानावं, तत्र ह्यायामसौवीरकादि निर्लेपं विज्ञेयमिति । 'उग्गहपडिम'त्ति अवगृह्यत इत्यवग्रहो - वसतिस्तत्प्रतिमाः- अभिग्रहा अवग्र हप्रतिमाः, तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा गृह्णतः प्रथमा, तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा--अहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते सति वत्स्यामीति तस्य द्वितीया, प्रथमा सामान्येन इयं तु गच्छान्तर्गतानां साम्भोगिकानामसम्भोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थे याचन्त इति, तृतीया स्वियं अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा स्वहालन्दिकानां यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्तः आचार्यार्थं तां याचन्त इति, चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म्म कुर्वतां पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति, इयं तु जिनकल्पिकस्येति, षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादि संस्तारकं ग्रहीष्यामि इतरथोत्कुटुको वा निषण्ण उपविष्टो वा रजनीं गमिष्यामीत्येषाऽपि जिनकल्पिकादेरिति, सप्तमी एषैव पूर्वोक्ता, नवरं यथाऽऽस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति । अयं च सूत्रत्रयार्थः क्वचित्सूत्र पुस्तक एव दृश्यत इति । 'सतसत्तिक्कय'त्ति अनुदेशक तयैकसरत्वेन ए
Education intimational
For Final P
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [ ०३ ]
~776~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
g