________________
आगम
(०३)
प्रत
सूत्रांक
[५१७]
दीप
अनुक्रम
[५६८]
स्था० ६२
“स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ५१७]
स्थान [ ६ ],
उद्देशक [-],
'भे'त्यादि, 'बंभलोए'ति पञ्चमदेवलोके षडेव विमानप्रस्तटाः प्रज्ञप्ता, आह च - "तेरस ई बारस छ५ पंच चैव ६ चतारि ७८ उसु कप्पेसु । गेवेज्जेसु तिय तिय ३-३-३ एगो य अणुत्तरेसु १ भवे ॥ १ ॥ त्ति, [त्रयोदश द्वादश षटू ५ पंच ६ चैव चत्वारः ७-८ - चतुर्षु कल्पेषु चैवेयकेषु त्रयस्त्रयः एकश्चानुत्तरेषु भवेत् ॥ १॥ ] | १३-१२-६-५-१६ ९ १ सर्वेऽपि ६२, तद्यथा-अरजा इत्यादि सुगममेवेति । अनन्तरं विमानवक्तव्यतोकेति तत्प्रस्तावानक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाह -- 'चंदस्से' त्यादि व्यक्तं, नवरं 'पुब्बं भाग 'त्ति पूर्वमिति - पूर्वभागेनाग्रेणेत्यर्थो भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते युज्यन्ते इतियावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याप्रयोगीनि, चन्द्र एतान्यप्राप्तो भुङ्क्ते इति लोकश्रीप्रोक्ता भावनेति, उक्तं च तत्रैव - "पुव्वा तिनि य मूलो मह कित्तिय अग्गिमा जोगा” इति, [ त्रीणि च पूर्वाणि मूलं मघा कृत्तिका एतान्यग्रिमयोगानि ] 'समं' स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रं- आका शदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाह- 'त्रिंशन्मुहर्त्तानि' त्रिंशतं मुहर्त्ताश्चन्द्रभोगो येषां तानि तथा, 'णसंभाग'त्ति नभागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च- " अद्दाऽसेसा साई सयभिसमभिई य जेट्ट समजोगा" [ आर्द्राऽश्लेषा स्वातिः शतभिषक् अभिजित् ज्येष्ठा समयोगानि ॥ ] केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजितेति मतविशेषो दृश्यत इति, अपार्द्ध-समक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा, अर्द्धक्षेत्रत्वमेवाह-- 'पंचदशमुहर्त्ता नीति, 'उभयभाग'त्ति चन्द्रेणोभयतः- उभयभागाभ्यां पूर्वतः पश्चाश्चेत्यर्थी भज्यन्ते भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च-- “उत्तरतिनि विसाहा पुणब्वसू
For Full
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
~738~
incibay.org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः