SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५१] दीप अनुक्रम [५१] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [१], उद्देशक [-1, मूलं [५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आ - रभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावस्तेषाम् एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिकद्विशतप्रमाणानि वाच्यानि २६०, | विंशतेः कृष्णादिभावानां त्रयोदशभिर्गुणनादिति । साम्प्रतं भङ्ग्यन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह-'एगा जहन्नप्पएसियाण' मित्यादि, जघन्याः - सर्वाल्पाः प्रदेशाः - परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, व्यणुकादेय इत्यर्थः स्कन्धाः - अणुसमुदयास्तेषां उत्कर्षन्तीत्युत्कर्षाः - उत्कर्षवन्तः उत्कृष्टसङ्ख्याः परमानन्ताः प्रदेशाः - अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकाः तेषां जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकास्तेषाम् एतेषां चानन्तवर्गणत्वेऽ| प्यजघन्योत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणात्यमिति । 'जहन्नोगाहणगाणं'ति अवगाहन्ते आसते यस्यां साऽवगाहना - क्षे प्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाज्जघन्यावगाहनकास्तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्ख्येयासङ्ख्येयप्रदेशावगाढानामित्यर्थः । जघन्या - जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिकाः, एकसमयस्थितिका इत्यर्थः तेषां उत्कर्षा - उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा तेपामसङ्ख्यात समयस्थितिकानामित्यर्थः, तृतीयं कण्ठ्यं जघन्येन - जघन्यसह्रयाविशेषेणैकेनेत्यर्थः गुणो-गुणनं ताडनं यस्य स तथा (तथा) विधः कालो वर्णो येषां ते जघन्यगुणकालकास्तेषाम् एवमुक्क१ एकस्मादारभ्य दशान्ताः संख्यास्यानन्तावेति त्रयोदश २ खखवर्गणायां जघन्यानां वर्गणानामनेकविधत्वात् धणुकादय इति. सिध्धानाम पंचदश-भेदा: For Pale Only ~72~ nirary or
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy