________________
आगम
(०३)
प्रत
सूत्रांक
[३९७]
दीप
अनुक्रम
[४३१]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [५], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ]
मूलं [ ३९७]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
दुःशका विभावना कर्त्तुं तस्येत्यर्थः, तथा 'दुप्परसं'ति दुःखेन दर्श्यते इति दुर्दर्श, उपपत्तिभिर्दुःशकं शिष्याणा प्रतीतावारोपयितुं तस्वमिति भावः, 'दुतितिक्ख'ति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्षं परीपहादि दुःशकं परीषहादिकमुत्पन्नं तितिक्षयितुं, शिष्यं तत्मति क्षमां कारयितुमिति भाव इति, 'दुरणुचरं ति दुःखेनानुचर्यते - अनुष्ठीयत इति दुरनुचरमन्तर्भूतकारितार्थत्वेन दुःशक मनुष्ठापयितुमित्यर्थः, [ कातन्त्रे हि कारितसंज्ञयैव णिगन्तो ज्ञाप्यते ] अथवा तेषां तीर्थे दुराख्येयं दुर्विभजमाचार्यादीनां वस्तुतस्त्वं शिष्यान् प्रति, आत्मनापि दुर्द्दर्श दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थे विमुच्य व्याख्येयं तेषामपि ऋजुजडादित्वादिति । मध्यमानां तु सुगमं अकृच्छ्रवृत्तिः, तद्विनेयानामृजुप्रज्ञत्वेना* ल्पप्रयतेनैव बोधनीयत्वाद् विहितानुष्ठाने सुखप्रवर्त्तनीयत्वाच्चेति शेषं पूर्ववत्, नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या, तथा 'सुरनुचरन्ति रेफः प्राकृतत्वादिति नित्यं सदा वर्णितानि फलतः कीर्त्तितानि-संशब्दितानि नामतः, 'बुझ्याई'ति व्यक्तवाचोक्तानि स्वरूपतः 'प्रशस्तानि' प्रशंसितानि श्लाघितानि 'शंसु स्तुता'विति वचनात् अभ्यनुज्ञातानि कर्त्तव्यतया अनुमतानि भवन्तीति, अयं च सूत्रोरक्षेपः प्रतिसूत्रं वैयावृत्यसूत्रं यावद् दृश्य इति, तत्र क्षान्त्यादयः क्रोधलोभमायामाननिग्रहाः तथा लाघवमुपकरणतो गौरवन्त्रयत्यागतश्चेति, तथाऽन्यानि पञ्च, सद्भ्यो हितं सत्यम्-अनलीकं, तच्चतुर्विधं यतोऽवाचि - " अविसंवादनयोगः कायमनोत्रागजिह्मता चैत्र । सत्यं चतुर्विधं तच्च जिनवरम| तेऽस्ति नान्यत्र ॥ १ ॥” इति तथा संयमनं संयमो - हिंसादिनिवृत्तिः, स च सप्तदशविधः, तदुक्तम्- “पुढविदगअग| णिमारुय वणष्फर बितिचउपणिंदि अज्जीवे । पेहोपेहपमजणपरिवणमणोवई काए ॥ १ ॥ [ पृथ्वीदकाग्निमारुतवन
For Parts Only
~ 596~
|ryorg