________________
आगम
(०३)
प्रत
सूत्रांक
[३७१]
दीप
अनुक्रम [४०२]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
स्थान [ ४ ], उद्देशक [४], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
Education Internation
न्द्रियहानिरूपं यद् दुःखं तेना संयोजयितेति । जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि, नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियाया अभावात्, एवं 'विगलिंदियवज्जं'ति, एकद्वित्रिचतुरिन्द्रियाणां पञ्चापि, तेषां मिथ्यादृष्टित्वात्, द्वीन्द्रियादीनाञ्च सासादनसम्यक्त्व स्यात्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति । अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थ सूत्रद्वयं तच्च सुगमं, नवरं सतो -विद्यमानान् गुणान् नाशयेदिव नाशयेत् अपलपति न मन्यते, क्रोधेन| रोषेण तथा प्रतिनिवेशेन-एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनं न जानातीत्यकृतज्ञस्तद्भावस्तत्ता तया मिथ्यात्वाभिनिवेशेन-बोधविपर्यासेन, उक्तञ्च -- “रोसेण पडिनिवेसेण तहय अकवण्णुमिच्छभावेणं । संतगुणे नासिता भासइ अगुणे असंते वा ॥ १ ॥” इति [रोपेण प्रतिनिवेशेन तथैवाकृतज्ञतया मिथ्याभावेन च सतो गुणान्नाशयित्वाऽसतो दोषान् भाषते ॥ १ ॥ ] असत:- अविद्यमानान् क्वचित्संतेत्ति पाठस्तत्र च सतो -विद्य मानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो हेवाको वर्णनीयासन्नता वा प्रत्ययो - निमित्तं यत्र दीपने तदभ्यासप्रत्ययं दृश्यते ह्यभ्यासान्निर्विषयापि निष्फलापि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य- पराभिप्रायस्यानुवृत्तिः- अनुवर्त्तना यत्र तसरच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतोः- प्रयोजननिमित्तं चकीर्षितकार्य प्रत्यानुकूल्यकरणायेत्यर्थः तथा कृते-उपकृते प्रतिकृतं प्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिकः 'इति वा' कृतप्रत्युपकर्त्तेतिहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा एकेनैकस्योपकृतं गुणा वोल्कीर्त्तिताः स तस्यासतो -
For Parts Only
मूलं [३७१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~572~