________________
आगम
(०३)
प्रत
सूत्रांक
[३५७]
दीप
अनुक्रम [३८४]
श्रीस्थाना
असूत्रवृत्तिः
॥ २७७ ॥
Jan Ecat
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [ ४ ], उद्देशक [४], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
मूलं [ ३५७]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
'चारी'त्यादि व्यक्तं केवलं संज्ञानं संज्ञा- चैतन्यं तच्चासात वेदनीय मोहनीयकम्मोदयजन्यविकारयुक्तमाहारसंज्ञादिवेन व्यपदिश्यत इति, तत्राहारसंज्ञा- आहाराभिलाषः भयसंज्ञा-भयमोहनीयसम्पाद्यो जीवपरिणामो मैथुनसंज्ञावेदोदयजनितो मैथुनाभिलाषः परिग्रहसंज्ञा - चारित्रमोहोदयजनितः परिग्रहाभिलाप इति, अवमकोष्ठतया - रिक्तोदरतया मत्या - आहारकथाश्रवणादिजनितया तदर्थोपयोगेन सततमाहारचिन्तयेति । हीनसत्त्वतया - सत्त्वाभावेन मतिःभयवार्त्ताश्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन- इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । चिते उपचिते | मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चित्तमांसशोणिततया मत्या- सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन- मैथुनलक्षणार्थानुचिन्तनेनेति । अविमुक्ततया - सपरिग्रहतया मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन परिग्रहानुचिन्तनेनेति । संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्रं व्यक्तञ्च, किन्तु कामाः - शब्दादयः, शृङ्गारा देवानां एकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शृङ्गारो, यदाह - "व्यवहारः पुंनार्योरन्योऽन्यं रक्तयोरतिप्रकृतिः शृङ्गारः" इति मनुष्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात्तुच्छत्वेन क्षणदृष्टनष्टत्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात्, करुणो हि रसः शोकस्वभावः "करुणः शोकप्रकृति"रिति वचनादिति, तिरक्षां बीभत्सा जुगुप्सास्पदत्वात्, बीभत्सरसो हि जुगुप्सात्मको, यदाह - "भवति जुगुप्साप्रकृतिबीभत्सः' इति, नैरयिकाणां रौद्रा-दारुणा अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वात्, रौद्ररसो हि कोधरूपो, यत आह"रौद्रः क्रोधप्रकृति" रिति । एते च कामाः तुच्छगम्भीरयोर्वाधकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह
संज्ञा एवं तस्य उत्पत्तिः
For Parts On
~ 557 ~
१४ स्थाना० उद्देशः ४ संज्ञाः सू० ३५६
कामाः
सू० ३५७
।। २७७ ॥
nirar