________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३४५]
र्भवन्ति, विकल्पाभिलापश्चर्व-को जानाति जीवः सन्निति किंवा तेन ज्ञातेनेत्येको विकल्पः, एवमसदादयोऽपि पाच्याः, तथा सती भावोत्पत्तिरिति को जानाति किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या चेति, सत्त्वादिसप्तभजवाश्चायमर्थः-स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं १ पररूपमात्रापेक्षया त्वसत्त्वं २ तथा एकस्य घटादिद्रव्यदेशस्य प्रीवादेः सद्भावपर्यायेण ग्रीवात्यादिनाऽऽदिष्टस्य सत्त्वात् तथा घटादिद्रव्यदेशस्यैवापरस्य बुभादेरसद्भावपर्यायेण वृत्तत्वा|दिना परगतपर्यायेणैयादिष्टस्यासत्वात् वस्तुनः सदसत्त्वम् ३ तथा सकलस्यैवाखण्डितस्य घटादिवस्तुनोऽर्धान्तरभूतैः पटादिपर्यायनिजैश्चोझे कुण्डलौष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा धक्तुनशक्यत्वात् तस्य घटादेव्यस्यावक्तव्यत्वम् ४, तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्त्वादपरस्य स्वपरपर्याययुगपदादिष्टतया सत्त्वेनासत्वेन वा वक्तुमशक्यत्वात् घटादिद्रव्यस्य सदवक्तव्यत्वमिति ५, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्या-| यैरादिष्टस्यासत्वादपरदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वकुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वम् ६, तथा घटादिद्रग्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेन सत्वादपरस्य परपर्यायैरादिष्टतया असत्वादन्यस्य स्वपरपर्याययुगपदादिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति ७, इह च प्रथमद्वितीयचतुर्था | अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्चिता दर्शिताः, तथाऽन्यैस्तृतीयोऽपि विकल्पोऽखण्डवस्त्वानित एवोक्तः, तथाहि-अखण्डस्य वस्तुनः स्वपर्यायः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायाम्"इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षस्वात् तस्योपत्तेश्चावयवाभावा"दिति, एवम-16
दीप
अनुक्रम [३६७]
| वादिः, तस्य समवसरणानि, अज्ञानिक,
~540~