SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [३३८] दीप अनुक्रम [३६०] आहरणस्य भेदा: “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [ ३३८ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [४], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] Education International च्छेण निव्वेओ ॥ १ ॥ खितंमि अवक्रमणं दसारवग्गस्स होइ अवरेणं । दीवायणो य काले भावे मंडकियाखमओ ॥ २ ॥" [ द्रव्यापाये द्वौ वणिग्भ्रातरौ धननिमित्तं । वधपरिणती एकैकस्मिन् हृदे मत्स्येन निर्वेदः ॥ १ ॥ क्षेत्रे | अवक्रमणं दशार्हबर्गस्य भवत्यपरस्याम् । द्वीपायनश्च काले भावे मण्डूकिकाक्षपकः ॥ २ ॥ ] इति, 'उवाए'ति उपाय:उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत्, उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्देव, तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगश्चैवम् अस्ति सुवर्णादिषुपायः उपायेनैव वा सुवर्णादौ प्रवर्त्तितव्यं, तथाविधधातुवादसिद्धादिवदिति, एवं क्षेत्रोपायः - क्षेत्रपरिकर्म्मणोपायो यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्त्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, एवं काठोपाय:- कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपायः धान्यादेरिव, जानीहि वा कार्ल घटिकाच्छायादिनोपायेन तथाभूतगणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि वृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभाषा भयकुमारवदिति, तथाहि किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्व कफलादिसमृद्धारामस्यावफलानां अकालाम्रफल दोहदवद्धार्या दोहदपूरणार्थे चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थ नाव्यदर्शननिमित्तमिलित बहुजनमध्ये बृहत्कुमारिकाकथामच कथत्, तथाहि - काचिद् वृद्धकुमारिका For Palsta Use On ~514~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy