________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [३], मूलं [३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
CAD
प्रत सूत्रांक [३२३]
CROFERENERAL
निरन्तरा निधुरा वा कण्टा:-कण्टका यमिंस्तत् खरकण्ट-बुन्बूलादिडालं वरणमिति लोके यदुच्यते तश्च बिलग्नं चीवरं न केवलमविनाशितं न मुशत्यपि तु तद्विमोचकं पुरुषादिकं हस्तादिषु कण्टकैः विध्यतीति, अथवा खरण्टयति-लेपवन्त | करोति यत् तत्खरण्टम्-अशुच्यादि तत्समानो, यो हि कुवोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलतादुष्पसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसषणोद्भावकत्वेन वेति । श्रमणोपासकाधिकारादिदमाह-'समणस्से'त्यादि कण्ठ्यं, नवरं, श्रमणोपासकानामानन्दादीनामुपासकदशाभिहितानामिति । देवाधिकारादेवेदमाह'चउही त्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो व्याख्यातमेवेद, तथापि किश्चिदुच्यते, चउहि ठाणेहिं नो संचाएइत्ति सम्बन्धः, तथा देवलोकेषु देवमध्ये इत्यर्थः, हवं-शीघं, संचाएइत्ति-शक्नोति, कामभोगेषु-मनोज्ञशब्दादिषु मूच्छित इव मूच्छितो-मूढस्तत्स्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात् गृद्धः-तदाकाडावान् अतृप्त इत्यर्थः ग्रथित एवं प्रथितस्त-14 द्विषयस्नेहरजुभिस्संदर्भित इत्यर्थः, अध्युपपन्नः अत्यन्तं तन्मना इत्यर्थः, नाद्रियते--न तेप्वादरवान् भवति, न परिजानाति-एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नो अर्थ बनाति-एतैरिदं प्रयोजनमिति निश्चय करोति, तथा नो तेषु निदानं प्रकरोति-एते मे भूयासुरित्येवमिति, तथा नो तेषु स्थितिप्रकल्पम्-अवस्थानविकल्पनमे तेष्वहं तिष्ठामि एते वा मम तिष्ठन्तु-स्थिरा भवन्त्वित्येवंरूपं स्थित्या वा-मर्यादया प्रकृष्टः कल्पः-आचारः स्थितिप्रकल्पस्तं प्रकरोति-कर्नुमारभते, प्रशब्दस्यादिकार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेकं कारणं, तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूच्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादि इति दिव्यप्रेमसङ्क्रान्तिः द्वितीय, तथाऽसौ देवो यतो भो-IN
दीप
अनुक्रम [३४५]
JABEdurainhintamarikana
ForParaamaRAVIDEOnly
श्रावकस्य चतुर्विध स्वरूपं
~ 490~