SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ३०६ ] दीप अनुक्रम [३२६] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [४], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ] विजयादीनि क्रमेण पूर्वादिदिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेशः- कुड्यस्थूलत्वमष्ट योजनान्युच्चमिति, उच “उजोयणविच्छिना अहेव य जोयणाणि उब्विद्धा । उभओवि कोसकोसं कुड्डा वालओ तेसिं ॥ १ ॥” इति, क्रोशं शाखाबाहल्यमित्यर्थः, “पलिओचमडिईया सुरगणपरिवारिया सदेवीया । एएसु दारनामा वसंति देवा महिडीया ||२||" इति, 'चुल्लहिमवंतस्स' त्ति महाहिमवदपेक्षया लघोर्हिमवतः, तस्य हि प्राग्भागापरभागयोः प्रत्येकं शाखाद्वयमस्तीत्युच्यते 'चसु विदिसासु' विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्रं त्रीणि त्रीणि योजनशतान्यवगाह्य-उहा ये शाखाविभागा वर्त्तन्ते 'एत्य'त्ति एतेषु शाखाविभागेषु अन्तरे-मध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं - परस्परविभागस्तत्प्रधाना द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरु [च] काभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः एवमाभाषिकवैपाणिकलाङ्गुलिकद्वीपा अपि क्रमेणाग्नेयीनैऋतीवायव्यास्विति चतुर्विधा इति समुदायापेक्षया न त्वेकैकस्मिन्निति, अतः क्रमेणैते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शने मनोरमाः स्वरूपतो, नैकोरुचकादय एवेति तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक् चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषां तावदेवायामविष्कम्भप्रमाणं यावत्सप्तमानां नवशतान्यन्तरं तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तु युग्मप्रसवाः पत्योपमासङ्ख्ये य भागायुपोऽष्टधनुःशतोच्चाः, तथैरावतक्षेत्र विभाग १ योजनचतुष्कं विस्तीर्ण अयोजनोद्वेधा उभयतोऽपि कोशको कुइया बाहूल्यतस्तयोः ॥ १ ॥ पयोपमस्थितिकाः सुरगणपरिवृताः सदेवीकाः एतेषु द्वारनामानो वसन्ति देवा महर्दिकाः ॥ २ ॥ Internationa मूलं [ ३०६ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Penal Use On ~456~ war
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy