________________
आगम
(०३)
प्रत
सूत्रांक
[२८१]
दीप
अनुक्रम [ ३००]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) स्थान [४], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
सूत्राणि नेयानि, तथा आर्यभावः क्षायिकादिज्ञानादियुक्तः अनार्यभावः कोधादिमानेति । पुरुषजातप्रकरणमेव दृष्टान्तदान्तिकार्थोपेतमा विकथासूत्रादभिधीयते, पाठसिद्धं चैतत् नवरं ऋषभा - बलीवर्दाः जातिः- गुणवन्मातृकत्वं कुलं- गुणवसितृकत्वं बलं - भारवहनादिसामर्थ्यं रूपं शरीरसौन्दर्यमिति, पुरुषास्तु स्वयं भावयितव्याः २, अनन्तरदृष्टान्तसूत्राणि तु सपुरुषदान्तिकानि जात्यादीनि चत्वारि पदानि भुवि विन्यस्य षण्णां द्विकसंयोगानां 'जाइसंपन्ने नो कुलसंपन्ने' इत्यादिना स्थानभङ्गकक्रमेण षडेव चतुर्भङ्गिकाः कृत्वा समवसेयानि । हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च यदाह - “भद्रो मन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः । वनप्रचार १ सारूप्य २, सत्त्वभेदोपलक्षिताः ३ ॥ १ ॥” इति तत्र भद्रो हस्ती भद्र एव धीरत्वादिगुणयुक्तत्वात्, मन्दो मन्द एव धैर्यवेगादिगुणेषु मन्दस्वात्, मृगो मृग एव तनुत्वभीरुत्वादिना, सङ्कीर्णः किशिद् भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषो ऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदान्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमन:प्रभृतीनि च विन्यस्य "भद्दे नामं एगे भद्दमणे" इत्यादिना क्रमेण समयसेयानि, तत्र भद्रो जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः, मन्दं मन्दस्येव वा मनो यस्य स तथा नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतमना विचित्रचित्त इत्यर्थः, पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति, भद्रादिलक्षणमिदम् - 'मह'गाथा, मधुगुटिकेव-क्षौद्रवटिकेव पिङ्गले-पि अक्षिणी लोचने यस्य स तथा अनुपूर्वेण परिपाव्या
Education International
For Pale Only
मूलं [ २८१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~420~
भ। मं । से
म में मृ । स