________________
आगम
(०३)
प्रत
सूत्रांक
[२४७]
दीप
अनुक्रम [२६१]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [४], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
मूलं [ २४७ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
रानुप्रेक्षेति । अथ शुमाह- 'पुहुत्तवितके त्ति पृथक्त्वेन - एकद्रव्याश्रितानामुत्यादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रु तालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम्-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीना योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो 'विचारोऽर्थव्यञ्जनयोगसङ्क्रान्ति'रिति ( तत्त्वा० अ० ९ सू० ४६ ) वचनात्, सह विचारेण सविचारि, सर्वधनादित्यादिन्समासान्तः, उक्तं च – “उप्पायठितिभंगाई पज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुच्वगयसुयाणुसारेणं ॥ १ ॥ सवियारमत्थवंजण जोगंतरओ तयं पढममुकं । होति पुहुत्तवियक्कं सवियारमरागभावस्स ॥ २ ॥" इत्येको भेदः, तथा 'एगत्तवियत्ति एकत्वेन अभेदेनोत्यादादिपर्यायाणामन्यतमैकपर्यायान्बनतयेत्यर्थो वितर्कः- पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वातगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं च-""जं पुण सुनिप्पकं निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगंमि पजाए ॥ १ ॥ अवियारमत्थवंजणजोगंतरओ तयं बिइयसुकं । पुत्रगयसुया लंबण मेग त्तवियकमविया ॥ २ ॥” इति द्वितीयः, तथा
१] उत्पादस्थितिभंगादिपदानां यदेकस्मिन् द्रन्ये नानानयैरनुसरणं पूर्वमतश्रुतानुसारेण ॥ १ ॥ सविवारमर्थव्यञ्जनयोगान्तरतस्तत् प्रथमकम् भवति पृथक्त्ववितर्क सविचारमरागभावस्य ॥ २ ॥ २ यत्पुनः निष्प्रकंप निवासस्थानप्रदीपमिव चितं उत्पादस्थिति गंगादीनामेकस्मिन् पर्याये ॥ १॥ अविचारमर्थव्यञ्जनयोगान्तरतस्तत् द्वितीयं शुम् पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् ॥ २ ॥
Education Internation
चत्वार: ध्यानस्य वर्णनं
For Park Use Only
~384~