________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२४६]
बीज येषां तेऽप्रवीजा:-ब्रीह्यादयः, मूलमेव बीजं येषां ते मूलबीजा:-उत्सलकन्दादयः, एवं पर्वबीजा-इक्ष्वादयः, स्कन्धवीजा:-सल्लक्यादयः, स्कन्धः धुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूच्र्छनजादीनां नाभावो मन्तव्यः, सूत्रान्तरविरोधादिति । अनन्तरं वनस्पतिजीवानां चतुःस्थानकमुक्तम् , अधुना जीवसाधान्नारकजीवानाश्रित्य तदाह-'चउही'त्यादि सुगम, केवलं 'ठाणेहिंति कारणः 'अहुणोववन्ने'त्ति अधुनोपपन्न:-अचिरोपपन्नः, निर्गतमयं-शुभमस्मादिति निरयो-नरकस्तत्र भवो नैरयिकः, तस्य चानन्योत्पत्तिस्थानतां दर्शयितुमाह-निरयलोके, तस्मादिच्छेन्मानुपाणामयं मानुपस्तं लोक-क्षेत्रविशेष 'हवं' शीघ्रमागन्तुं, 'नो चेव'त्ति नैव, णं वाक्यालङ्कारे, 'संचाएई' सम्यक् शक्रोति आगन्तुं, 'समुन्भूयं ति समुद्भूनाम्-अतिप्रबलतयोत्पन्नां पाठान्तरेण 'सम्मुखभूताम्' एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतम् तेन सह या सा समता तां सुमहद्भूतां वा वेदनां-दुःखरूपां वेदयमान:-अनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः कारणम् १, एतदेव चाशकनस्य, तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति, तथा निरयपालैः-अम्बादिभिः भूयो भूयः-पुनः पुनरधिष्ठीयमानः-समाक्रम्यमाणः आगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणं, तैरत्यन्ताकान्तस्यागन्तुमशक्तत्वादिति २, तथा निरये वेद्यतेअनुभूयते यत् निरययोग्यं वा यद्वेदनीयं तन्निरयवेदनीय-अत्यन्ताशुभनामकादि असातवेदनीयं वा तत्र कर्मणि अक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीणे-जीवप्रदेशेभ्योऽपरिशदिते इच्छेत् मानुषं लोकमागन्तुं न च |शक्नोति, अवश्यवेधकम्मे निगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति ३, तथा 'एच'मिति 'अहुणोवचने' इत्याद्य
दीप
अनुक्रम [२६०]
१२
Inimation
~376~