________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति
स्थान [३], उद्देशक [४], मूलं [२०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२०८]
दीप अनुक्रम [२२२]
उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायच्च सयं न कुब्वंति ॥२॥” इति, गतिः-मानुषत्वादिका तत्रेहलोकस्य-प्रत्यक्षस्थ मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पश्चाग्नितपस्विवदिहलोकप्रत्यनीका, परलोको-जन्मान्तरं तत्प्रत्यनीकः इन्द्रियार्धतत्परो, द्विधालोकप्रत्यनीकश्चौर्यादिभिरिन्द्रियार्थसाधनपरः, यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणां भोगसाधनादीनामुपद्रवकारीहलोकप्रत्यनीका, एवं ज्ञानादीनामुपद्रवकारी परलोक-18 प्रत्यनीका, उभयेषां तु द्विधालोकप्रत्यनीक इति, अथवेहलोको-मनुष्यलोकः परलोको-नारकादिरुभयमेतदेव द्वितयं, प्रत्यनीकता तु तद्वितथप्ररूपणेति, कुलं चान्द्रादिकं तत्समूहो गणः कोटिकादिस्तत्समूहः सह इति, प्रत्यनीकता चैतेषां अवर्णवादादिभिरिति, कुलादिलक्षणं चेदम्-'एत्थ कुलं विन्नेयं एगायरियस्स संतई जा उ । तिण्ह कुलाण मिहो| पुण सावेक्खाणं गणो होइ ॥१॥ सव्वोऽवि नाणदसणचरणगुणविभूसियाण समणाणं । समुदायो पुण संघो गुणसमुदाओत्तिकाऊणं ॥२॥' अनुकम्पाम्-उपष्टम्भं प्रतीत्य-आश्रित्य तपस्वी-क्षपका, ग्लानो-रोगादिभिरसमर्थः,४ शैक्षः-अभिनवप्रवजितः, एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति, भावः-पर्यायः, सच जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः क्षायिकादिः, अप्रशस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततो भाव-ज्ञानादि प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथा-"पाययसुत्तनिवद्धं को
१परस्योपदेशं ददति एवमेव दशविध यावृत्य कर्तव्यं परं सर्व न कुर्वन्ति ॥ २ ॥ १ अत्र कुलं बिले यमेकाचार्य स्व या तु संततिः । त्रयाणां कुलानां मिथः सापेक्षाणां गणो भवति ॥१॥ सदाऽपि ज्ञानदर्शनधरणगुणविभूषितानां श्रमणानां । समुदायः पुनः संघः गुणसमुदाय इतिकृत्वा ॥२॥ ३ प्राकृतभाषानिबद्धमेतचुत को
~342~