________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
%
प्रत सूत्रांक [१८८]
दीप अनुक्रम [२०१]
पक्रमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा-सचित्ताचित्तमिश्रद्रव्यभेदात् , तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदभेदभिन्नः, पुनरेकैको द्विविध:-परिकर्मणि वस्तुविनाशे च, तब परिकर्मणि-द्रव्यस्य गुणविशेषकरणं तस्मिन् सति, तद्यथा-घृताधुपयोगेन पुरुषस्य वर्णादिकरणम् , एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनामपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्धक्यादिगुणापादनमिति, तथा वस्तुविनाशे च पुरुषादीनां खङ्गा
दिभिर्विनाश एवोपक्रम इति, एवमचित्तद्रव्योपक्रमः पद्मरागादिमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनं विनाशश्चेति, है मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति, तथा क्षेत्रस्य-शालिक्षेत्रादेः परिकर्म विनाशो वा क्षेत्रोपक्रमः,
तथा कालस्य-चन्द्रोपरागादिलक्षणस्योपक्रमः-उपायेन परिज्ञानं कालोपक्रमा, तथा भावस्य प्रशस्ताप्रशस्तरूपस्योपायतः परिज्ञानमेव भावोपक्रमः, स चाप्रशस्तो डोड्डिनीगणिकाऽमात्यदृष्टान्तावसेयः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति, एवं च धार्मिकस्य-संयतस्य यश्चारित्राद्यर्थ द्रव्यक्षेत्रकालभावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोप
क्रमः, तथा अधार्मिकस्य-असंयतस्यासंयमार्थ यः सोऽधार्मिक एव, तथा धाम्मिकाधार्मिकस्य-देशविरतस्य यः स ४ीधार्मिकाधाम्मिक इति, अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह-तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपहै क्रमो-बैहानसादिना विनाशः परिकर्म वा आत्मार्थ वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति, तथा परस्य परार्थ |
वोपक्रमः परोपक्रम इति, तदुभयस्य-आत्मपरलक्षणस्य तदुभयार्थं वोपक्रमस्तदुभयोपक्रम इति, 'एवं'मिति उपक्रमसूत्रवत् ४ा आत्मपरोभयभेदेन वैयावृत्त्यादयो बाच्याः, व्यावृत्तस्य भावः कर्म वा वैयावृत्य-भक्तादिभिरुपष्टम्भा, तत्रात्मवैया
Audiorary.org
~312~