________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [६]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३-६]
दीप अनुक्रम [३-६]
5064564564
___ 'एगे दंडे' एकोऽविवक्षितविशेषत्वात् दण्ज्यते-ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च! द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्पयुक्तं मनःप्रभूति ॥ तेन चात्मा क्रियां करोतीति तामाह-एगा किरिया' एका-अविवक्षितविशेषतया करणमात्रविवक्षणात् करणं क्रिया-कापिक्यादिकेति, अधवा 'एगे दंडे एगा: किरिय'त्ति सूबद्धयेनारमनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डकियाशब्दाभ्यां त्रयोदश क्रियास्थानानि | प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाकस्माद्दण्डदृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परमाणापहरणलक्षणो दण्डशब्देन गृहीतः, तस्य चैकत्वं वधसामान्यादिति, क्रियाशब्देन तु मृषाप्रत्यया अदत्तादानप्रत्यया आध्यात्मिकी मानप्रत्यया मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया ऐयापथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान एव वक्ष्याम इति । अकियावत्त्वनिरासश्चात्मन एवं, यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तै स्तृत्वमप्यभ्युपगतमतो भुजिक्रियानिवर्त्तनसामर्थ्ये सति भोक्तृत्वमुपपद्यते तदेव च क्रिया|वत्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तु मुझे प्रतिबिम्बन्यायेनेति, तदयुक्तम् , कथश्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानयोगेऽपि प्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात् प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपाया बुद्धेरेव सुखाद्यर्थप्रतिविम्वनं नात्मनः, तर्हि नास्य भोगः, तदवस्थत्वात्तस्येति, अत्रापि बहु वक्तव्यं तनु स्थानान्तरादवसेयमिति ।। उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह-'एगे लोए' एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यगादिदिग्भेदतया लोक्यते-दृश्यते केवलालोकेनेति लोक-धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तम्-"धर्मादीनां वृत्ति-13॥
दंड, क्रिया, लोक, अलोक शब्दस्य व्याख्या
~ 30~