________________
आगम
(०३)
प्रत
सूत्रांक
[२]
दीप अनुक्रम
[२]
स्था० ३
Eatin
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक [-1
स्थान [१], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
मुनि दीपरत्नसागरेण संकलित .....
आत्मन: सिध्धि:
..........
-
णासे जेणेक्केकक्खरंपि य पयस्स । संखाईयसमइयं संखेज्जाई पर्यं ताई ॥ २ ॥ संखेज्जपयं वकं तदत्थगणपरिणामओ होजा । सव्वखणभंगनाणं तदजुत्तं समयनइस्स ॥ ३ ॥” इति, तथा सर्वथोच्छेदे तृत्यादयो न घटन्ते, पूर्वसंस्का रानुवृत्तावेव तेषां युज्यमानत्वाद्, आह च - "तित्ती समो किलामो सारिक्खविवक्खपञ्चयाईणि । अज्झयणं झाणं भावणा य का सब्वनासंमि ? ॥ १ ॥” ति, तत्र तृप्तिः प्राणिः श्रमः - अध्यादिखेदः कुमो ग्लानिः सादृश्यं साधर्म्य विपक्षी - वैधर्म्य प्रत्यय:-अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः भवनभङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च--"जमणंतपज्जयमयं वत्युं भवणं च चित्तपरिणामं । ठिइविभवभङ्गरूवं णिच्चाणिञ्चाइ तोऽभिमयं ॥ १ ॥” ति, एवं च "सुहदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता । एगयरपरिच्चाए सच्चच्ववहारच्छित्ति ॥ २ ॥” त्ति, अथवा एक आत्मा कथचिदेवेति, यतो जैनानां न हि सर्वथा किञ्चिद्वस्तु एकमनेकं वाऽस्ति, सामान्यविशेषरूपत्वाद्वस्तुनः अथ ब्रूयात्- विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो भेदाभेदाभ्यां चिन्त्यमानस्यायोगात्, तथाहि -सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, न भिन्नमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहर्त्तु शक्यं, खरविषाणस्यापि तथाप्रसङ्गात्, अथाभिन्नमिति पक्षः, तथा च सामान्यमात्रं वा स्याद्विशेषमात्रं वेति, न ह्येकस्मिन्
मूलं [२] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
१ तृप्तिः श्रमः क्रमः सादश्य विपक्षप्रत्ययादयः । अध्ययनध्याने भावना च का सर्वनाशे ॥ १ ॥ २] यदनन्तपर्ययमयं वस्तु भवनं च चित्रपरिणामम् । स्थितिविभवभङ्गरूपं नित्यानित्यादि ततोऽभिमतम् ॥ १ ॥ सुखदुःखवन्धमोक्षा उभयनयमत्तानुवर्त्तिनो युक्ताः । एकतरपरित्यागे सर्वव्यवहारच्छितिः ॥ २ ॥
For Parts Only
~ 28~