________________
आगम
(०३)
प्रत
सूत्रांक
[१२८]
दीप
अनुक्रम [१३६ ]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
मूलं [१२८ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
३ स्थान
ङ्गसूत्र
वृत्तिः
॥ ११३ ॥
श्रीस्थाना- ४ पुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च 'पत्तो* वर्ग इत्यादिवाध्ये पत्तोवा इत्यादिकं प्राकृतलक्षणवशादुक्तं, 'समाणे' इत्यत्रापि च 'सामाणे' इति ॥ अथ पुरुषप्रस्ता-काध्ययने २ वात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह - 'तओ' इत्यादि कण्ठ्यं, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरु- उद्देशः १ २ पप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वी वेति, विशेषोऽत्रेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भाष्यसू० १२८ * गाथा - "आगमे ओऽणुवत्तो इयरो दव्यपुरिसो तिहा तइओ । एगभवियाइ तिविहो मूलुत्तरनिम्मिओ वावि ॥ १ ॥” मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येवेति भावपुरुषभेदाः पुनर्ज्ञानपुरुपादयः । ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः एवमितरावपि । वेदः पुरुषवेदः तदनुभवनप्रधानः पुरुषो वेदपुरुषः, स च स्त्रीपुंनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति, तथा पुरुषचिह्नः श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषो, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चिह्यते पुरुष इतिकृत्वेति, पुरुषवेषधारी वा ख्यादिरिति, अभिलप्यतेऽनेनेति अभिलापः शब्दः स एव पुरुषः पुंलिङ्गतया अभिधानात् यथा घटः कुटो वेति, आह च- “अभिलायो पुंलिंगाभिहाणमेत्तं घडो व चिंधे उ । पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा ॥ २ ॥ वेयपुरिसो तिर्लिंगोऽवि पुरिसो वेदाशुभूइकालम्मि" ॥ इति, 'धम्मपुरिस' त्ति-धर्म्मः क्षायिकचारित्रादिस्तदर्जनपराः पुरुषाः धर्म्मपुरुषाः उक्तं च
१ आगमतोऽनुपयुक्त नोआगमतो द्रव्यपुरुषस्त्रिधा तृतीयः एकमनिकादिविविधः मूलोत्तरनिर्मितो वाऽपि ( योग्यानि द्रव्याणि आकारवन्ति वा ) ॥ १ ॥ अभिलापः पुंलिङ्गाभिधानमात्रं पट इस चिठे तु । पुरुषाकृति नपुंसक वेदो या पुरुषयेषो वा ॥ २ ॥ वेदपुरुषस्त्रिलिंगोऽपि पुरुषवेदानुभूतिकाले ।
Ja Eucation International
For Parts Only
~ 229~
॥ ११३ ॥