________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [११९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [११९]
समानं वर्तते, ततश्च क एषां विशेषः, आह च-"अभिहाणं दबत्तं तदत्थसुन्नत्तणं च तुल्लाई। को भाववजियाण | नामाईणं पइविसेसो? ॥१॥" इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते फलं च प्राप्नुवन्ति
केचिद्देवतानुग्रहात् न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्वं भेद इति, आह च-"आगारोऽभिष्पाओ सावडी किरियाफलं च पाएणं । जह दीसइ ठवणिंदे न तहा नामे न दविंदे ॥१॥” इति. यथा च द्रव्येन्द्रो भावे-11
न्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्चै न तथा नामस्थापनेन्द्रावित्ययं विशेष | इति, आह च-"भावस कारणं जह दवं भावो य तस्स पज्जाओ । उपओगपरिणतिमओ न तहा नामं न वा ठवणा ॥१॥" इति । उक्ता नामस्थापनाद्रव्येन्द्रा, इदानीं भावेन्द्रं त्रिस्थानकावतारेणाह-तओ ईत्यादि कण्ठप, । नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः-परमेश्वरी ज्ञानेन्द्रः-अतिशयवच्छ्रताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली वा, एवं दर्शनेन्द्र:-क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो-यथाऽऽख्यातचारित्रः, एतेषां च भावेन-सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः-परमार्थतो वेन्द्रत्वात्-सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्य
१ अभिधानं द्रव्यत्वं तदर्थशून्यत्वं च तुल्यानि को भाववर्जितानां नामादीनां प्रतिविशेषः । ॥१॥ (येन भेदात्रयस्ते)। २ आकारोऽभिप्रायो बुद्धिः कियाहै फलं च यथा प्रायः स्थापनेन्द्र श्यते न तथा सामेन्द्र न द्रव्येदे ॥१॥ ३ प्तपूर्वश्च प्र. ४ भारस्य कारणं यथा इव्यं भावश्च तस्य पर्यायः उपयोगपरिणतिमसो
न तथा नाम न वा स्थापनेति ॥१॥
दीप
अनुक्रम [१२७]
RELIGunintentATHREE
इंद्र शब्दस्य व्याख्या एवं निक्षेपा:
~210~