________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति©
स्थान [१], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[१]
दीप अनुक्रम
सूत्रानुगमस्य तद्रूपत्वादिति, आह च-"होई कयत्थो वो सपयच्छेयं सुयं सुयाणुगमो"त्ति, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च पदादयो व्याख्याभेदाः प्रवर्तन्त इति, तत्र पदानि-'श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यात'मिति, एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्न निक्षेपावसरः, तत्र चेयं व्यवस्था-"जत्थ उ जं जाणेज्जा निक्खेवं निक्खिये निरवसेसं । जस्थपि यण जाणेजा चउकयं निक्सिवे तत्थ ॥१॥"त्ति, तत्र नामश्रुतं स्थापनाश्रुतं च प्रतीतं, द्रव्य श्रुतमधीयानस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्त वा, भावश्रुतं तु श्रुतोपयुक्तस्येति, इह च भावभुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, तथा 'आउ ति आयुः-जीवितं, तन्नामादिभेदतो दशधा, तद्यथा-"नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तब्भवे य ६ भोगे य ७ । संजम ८ जस ९ कित्ती १० जीवियं च तं भण्णती दसहा ॥१॥" तत्र नामस्थापने क्षुण्णे 'दविए'त्ति द्रव्यमेव सचेतनादिभेदं जीवितव्यहेतुत्वाजीवितं द्रव्यजीवितं, ओघजीवितं नारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, 'तन्भवे यत्ति तस्यैव-पूर्वभवस्य | समानजातीयतया सम्बन्धि जीवितं तद्भवजीवितं, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीना, संयमजीवितं साधूनां, यशोजीवितं कीर्तिजीवितं च यथा महावीरस्येति, जीवितं चौयुरेवेति, इह च संयमा
१ भवति च कृतार्थ उक्त्वा सपदच्छेयं सून सूत्रानुगम इति. २वत्र तु यं जानीयात् निक्षेप निक्षिपेत् निरवशेषम् । यत्रापि च न जानीयात् चतुष्कर्ष निक्षिपेत्रात्र ॥१॥ वाक्यनिक्षेपप्रसाचे भाषानिक्षेपबदन आयुःप्रतावे जीवितनिक्षेप दखी,
'श्रुत' एवं 'आउस' शब्दस्य निक्षेपा:,
~16~