SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [९३] दीप अनुक्रम [७] Jan Education “स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:) मूलं [ ९३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [२] उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] धरपर्वताः शब्दापातिविकटापातिगन्धापातिमालवत्पर्यायाख्यवृत्तैयताढ्याश्च तन्निवासिस्वातिप्रभासारुणपद्मनाभदेवानां द्वयेन द्वयेन सहिताः क्रमेण द्वौ द्वावुक्तौ, 'दो मालवंत'त्ति मालवन्तावुत्तरकुरुतः पूर्वदिग्वत्तिनौ गजदन्तकौ स्तः, ततो भद्रशालबनतद्वेदिकाविजयेभ्यः परौ शीतोत्तरकूलवर्त्तिनौ दक्षिणोत्तरायती चित्रकूटो वक्षस्कारपर्वती, ततो विजयेनान्तरनद्या विजयेन चान्तरितावन्यो तथैवान्यौ पुनस्तथैवान्याविति पुनः पूर्ववन मुखवेदिका विजयाभ्यामर्वाक् शीतादक्षिणकूलवतीनि तथैव त्रिकूटादीनां चत्वारि द्वयानि, ततः सौमनसी देवकुरुपूर्वदिग्वर्त्तिनौ गजदन्तको, ततो गजदन्त| कावेव देवकुरुप्रत्यग्भागवर्त्तिनौ विद्युत्प्रभो, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परतः तथैवाङ्कावत्यादीनां चत्वारि | द्वयानि शीतोदादक्षिण कूलवर्त्तीनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतः क्रमेण तथैव चन्द्रपर्वतादीनां चत्वारि द्वयानि, ततो गन्धमादनाबुत्तरकुरुपश्चिमभागवर्त्तिनी गजदन्तकाविति एते धातकीखण्डस्य पूवार्डे पश्चिमार्द्ध च भवन्तीति द्वौ द्वायुक्ताविति, इपुकारौ दक्षिणोत्तर यो दिशोधतकीखण्डविभागकारिणाविति, 'दो चुल्लहिमवंतकूडा' इत्यादि, हिमवदादयः पढ़ वर्षधरपर्वताः तेषु ये द्वे द्वे कूटे जम्बूद्वीपप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद् एकेकशो द्वे द्वे स्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिहदा अपि द्विगुणास्तद्देव्योऽप्येवमिति । चतुर्दशानां गङ्गादिमहानदीनां पूर्वपश्चिमार्द्रापेक्षया द्विगुणत्वात् तत्प्रपातहूदा अपि द्वौ द्वौ स्युरित्याह- 'दो गंगापवा यद्दहे 'त्यादि, 'दो रोहियाओ' इत्यादी नद्यधिकारे गङ्गादीनां सदपि द्वित्वं नोकं, जम्बूद्वीपप्रकरणोक्तस्य – “महाहिमवंताओ वासहरपत्रयाओ महापडमद्दद्दाओ दो महानदीओ पवहंती" त्यादिसूत्रक्रमस्याश्रयणात् तत्र हि रोहिदादय एवाष्टौ श्रूयन्त इति, For Parts Only ~168~ rryp
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy