________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[९३]
'जंबू' इत्यादि कंठयं, नवरं, वज्रमय्याः अष्टयोजनोच्छ्रायायाश्चतुादशोपर्यधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगन्यूतोच्छूितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनुःशतविस्तीर्णा गवाक्षहेमकिङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवतीति ।। | जम्बूद्वीपवक्तव्यतानन्तरं तदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह-'लवणे ण'मित्यादि कण्ठ्यम् , नवरम्, 'चक्रवालस्य-मण्डलस्य विष्कम्भ:-पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिकासूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति । क्षेत्रप्रस्तावालवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां 'धायइ संडे दीवे' इत्यादिना वेदिकासूत्रान्तेन अन्धेनाह-कण्ठयश्वायम् , नवरं धातकीखण्डप्रकरणमपि जम्बूद्वीपलवणसमुद्रमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षधरान | जम्बूद्वीपानुसारेणैवोभयतः पूर्वापरविभागेन भरतहैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये मेलं |च कल्पयित्वाऽवबोद्धव्यम् । अनेनैव च क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति । तत्र धातकीनां-वृक्षविशेषाणां खण्डो
वनसमूह इत्यर्थो धातकीखण्डस्तयुक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्ड|श्चासौ द्वीपश्चेति धातकीखण्डद्वीपस्तस्य 'पुरच्छिमति पौरस्त्यं पूर्वमित्यर्थो यदर्द्ध-विभागस्तद्धातकीखण्डद्वीपपौरस्त्या, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति, उक्तं च-"पंचसयजोयणुचा सहस्सभेगं च होति विच्छिन्ना । कालोययलवणजले
१पंचशतवोजनोचौ सहखने के च भवतो विस्तीणीं। कालोदकलपणजले
दीप अनुक्रम [९७]]
Anjaanasurary.org
~164~