________________
आगम
(०३)
प्रत
[८]
दीप
अनुक्रम [८]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
स्थान [२],
मूलं [८८]
उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
रभरतार्द्ध विभजन्ती सप्तभिः नदीसहस्रैरापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताढ्यपर्वतं विदार्य दक्षिणार्द्ध भरतं विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्द्दशभिर्नदीसहस्रैः समग्रा मुखे सार्द्धद्विषष्टियोजनविष्कम्भा सक्रोशयोजनोद्वेधा जगतीं विदार्य पूर्वलवणसमुद्रं प्रविशति स गङ्गाप्रपातहूदः, एतदनुसारेण सिन्धुप्रपातह दोऽपि व्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भोद्वेधपरिणाहैर्भावनीयाविति, सर्व एव प्रपातहूदा दशयोजनोद्वेधा वक्तव्या इति । यश्चेह वर्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्कारक्तवतीनामनभिधानं तद् द्विस्थानकानुरोधात्, तासां हि एकैकस्मात् पर्वतात् त्र्यं त्र्यं प्रवहतीति द्विस्थानके नावतार इति । 'एव'मित्यादि, एवमिति प्राग्वत् 'रोहियप्पवायद हे चैवत्ति रोहिदू-उक्तस्वरूपा यंत्र प्रपतति यश्च सविंशतिकं योजनशतमायामविष्कम्भाभ्यां किञ्चिन्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागे रोहिद्वीपः षोडशयोजनायामविष्कम्भः सातिरेकपञ्चाशद्योजन परिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहिअपातह्रद इति । 'रोहियंसप्पवायदहे चेव'ति हिमवद्वर्षधरपर्वतोपरिवर्त्तिपद्महदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेकं उत्तराभिमुखी पर्वतेन गत्वा योजनायामया अर्द्धत्रयोदशयोजन विष्कम्भया क्रोशवाहल्यया जिह्निकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहिमपातकुण्डसमानमानः तस्य मध्ये रोहितांशद्वीपो रोहिद्वीपसमानमानः रोहितांशाभयनेन प्रागुक्तमानेनालङ्कृतः, यतश्च रोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं
Ja Education International
For Penal Use On
~152~
waryra